SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७४ जिनमण्डननिवद्धम् तथाहि युतसिद्धः पृथगवस्थिति सा ययोर्नास्ति तौ तथा तयोः सम्बन्धः समवायः । न चायं सर्वदा युतसिद्धयो' साध्यसाधनयोः साधीयान् । तन्न समवायोऽपि साध्यसाधनयोरनुबन्धविधायक' । साध्यसाधनभावसम्बन्धोऽपि न परस्परं साध्यसाधनयो सम्बन्धाधायकः । यतः सोऽपि तयोः किमेकाश्रयाश्रितयो. किं वा विभिन्नाश्रयाश्रितयोरित द्वयी गतिः । तत्राद्यायां गतौ किं पक्षकाश्रयसश्रितयोः किं वा सपकाश्रयसश्रितयोः प्रतिष्ठाप्येत ? किञ्चात. पक्षद्वयेऽपि 'यत्र यत्र साधनं तत्र तत्र साध्यम्' इति सोपसंहारव्याप्तिमहासल्या. प्राणहत्यापापारोप. शिरसि सरसिरुहारोह इवायातः कथं पश्चात्क्रियते विपश्चिच्चाणाक्यैः । सार्वत्रिकव्याप्त्ययोगे क्व नामानुमानाड्कुरप्ररोहः सर्वथा नि:जत्वात् । किञ्च, पक्षसपक्षरूपैकैकाश्रयाश्रितत्वे साध्यसाधनयोः शेत्रीयमाणे यथाक्रम पक्षधर्मतावैधुर्यजर्जरितत्वेन साधनस्यासिद्धतागाधनिश्शङ्कशाकिनीविकासितसततातङ्कः गड्कुवद् हृदये निहितः कथमुत्तारणीयः । निदर्शनस्योभयविकलताऽविकलकलवितदुर्ललनासगतिमालिन्यं च कथं निर्वालनीयं स्यात् ? एकव्यक्त्याश्रितत्वाभ्युपगमे गोशृङ्गयोरिव जीवस्थामूर्तत्वज्ञानवत्त्वयोरिव वा किं कस्य साध्यं साधकं वा भवेत् , तथा च साध्यसाधनभावसम्बन्धसम्भावनाऽपि न सम्भवी। अथ पृथगाश्रयाश्रितयोरिति विधा प्रधानतया प्रधार्यते विवुधधोरणीधुर्यैः । तत्रापि किं तयो परस्परं सापेक्षयोर्निरपेक्षयोर्चा ? न तावनिरपेक्षयोरित्यनन्तर' पक्षः सूपक्षेपः । यतस्तत्र 'धवल प्रासाद काकस्य कार्यात् , देवदत्तजाया रण्डा सोमदत्तस्याविद्यमानत्वात्' इत्यादिवद् व्याप्त्यनुपपत्ति[.] प्रतिवन्धाभावादिदोषपोषावतारस्य तादवस्थ्यात् । किञ्च, पृथक पृथग व्यक्त्याश्रितयोः साध्यसाधनयोः सर्वथा निरपेक्षत्वे कथ साध्यसाधनभावसम्बन्ध. ? न हि क्वापि घटस्थघटत्वं पटस्थपटत्वसाधनाय पटीयस्ता घटयति । अथ सापेक्षयोस्तत्रा(त्र) कि सापेक्षत्वमेकदेशावस्थायित्वेन किं वैककालभावित्वेन विभाव्येत । उभयथापि सापेक्षत्वेऽङ्गीक्रियमाणे कार्यकारणपूर्वचरोत्तरचरादिहेतूना सर्वथापि देशकालानपेक्षाणां कथं सम्बन्धो गृह्यते गुणगृःि। केषुचिद् गृहीतोऽपि न निश्शेषसाध्यसाधनाना परस्परि]सम्बन्धसिद्धरङ्गत्वात् जाजायते,सदेहाऽनिवृत्तेः । तन्न साध्यसाधकभावसम्बन्धोऽपि सामान्यि]गुणगृन्य(ह्य)रूपसाव्यसाधनयोः सम्भवी। अथ वोभोतु भो. ! तवाभिमतो योऽपि कोऽपि सम्बन्धः; न तत्र वयं किमपि कुर्महे काचपिच्यम् । परम् अपरसामान्यात्मक साधनं निश्चित विपक्षव्यावृत्तिमदन्यथा वा ?
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy