SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 4 ११८ - रायचन्द्र जैनशास्त्रमाला - [ अ० २, गा० * १ - ज्ञेयतत्त्वाधिकारः ॥ २ ॥ अथ ज्ञेयतत्त्वप्रज्ञापनं, तत्र पदार्थस्य सम्यग्द्रव्यगुणपर्याय स्वरूपमुपवर्णयति इतः ऊर्द्ध ‘सत्तासंवद्धेदे' इत्यादि गाथासूत्रेण पूर्वं संक्षेपेण यद्व्याख्यातं सम्यग्दर्शनं तस्येदानीं विषयभूतपदार्थव्याख्यानद्वारेण त्रयोदशाधिकशतप्रमितगाथापर्यन्तं विस्तरव्याख्यानं करोति । अथवा द्वितीयपातनिका - पूर्वं यद्व्याख्यातं ज्ञानं तस्य ज्ञेयभूतपदार्थान् कथयति । तत्र त्रयोदशाधिकशतगाथासु मध्ये प्रथमस्तावत् ' तम्हा तस्स णमाई' इमां गाथामादिं कृत्वा पाठक्रमेण पञ्चत्रिंशद्गाथापर्यन्तं सामान्यज्ञेयव्याख्यानं, तदनन्तरं 'दबं जीवमजीवं' इत्याद्येकोनविंशतिगाथापर्यन्तं विशेषज्ञेयव्याख्यानं, अथानन्तरं 'सपदेसेहिं समग्गो लोगो' इत्यादि गाथाष्टकपर्यन्तं सामान्यभेदभावना, ततश्च 'अत्थित्तणिच्छिदस्स हि' इत्याद्येकपञ्चाशद्गाथा - पर्यन्तं विशेषभेदभावना चेति द्वितीयमहाधिकारे समुदायपातनिका । अथेदानीं सामान्यज्ञेयव्याख्यानमध्ये प्रथमा नमस्कारगाथा, द्वितीया द्रव्यगुणपर्यायव्याख्यानगाथा, तृतीया खसमयपरसमय निरूपणगाथा, चतुर्थी द्रव्यस्य सत्तादिलक्षणत्रयसूचनगाथा चेति पीठिकाभिधाने प्रथमस्थले स्वतन्त्रगाथाचतुष्टयम् । तदनन्तरं 'सन्भावो हि सहावो' इत्यादिगाथाचतुष्टयपर्यन्तं सत्तालक्षणव्याख्यानमुख्यत्वं, तदनन्तरं 'ण भवो भंगविहीणो' इत्यादिगाथात्रयपर्यन्तमुत्पादव्ययधौव्यलक्षणकथन मुख्यता, ततश्च 'पाडुब्भवदि य अण्णो' इत्यादि गाथाद्वयेन द्रव्यप - र्यायनिरूपणमुख्यता । अथानन्तरं 'ण हवदि जदि सहवं' इत्यादि गाथाचतुष्टयेन सत्ताद्रव्ययोरभेदविषये युक्तिं कथयति, तदनन्तरं 'जो खलु दवसहावो' इत्यादि सत्ताद्रव्ययो - गुणगुणिकथनेन प्रथमगाथा, द्रव्येण सह गुणपर्याययोरभेदमुख्यत्वेन 'णत्थि गुणो ति य कोई' इत्यादि द्वितीया चेति खतन्त्रगाथाद्वयं, तदनन्तरं द्रव्यस्य द्रव्यार्थिकनयेन सदुत्पादो भवति, पर्यायार्थिकन येनासदित्यादिकथनरूपेण ' एवंविहं' इतिप्रभृति गाथाचतुष्टयं ततश्च 'अस्थि त्ति य' इत्याद्येकसूत्रेण नयसप्तभङ्गीव्याख्यानमिति समुदायेन चतुर्विंशतिगाथाभिरष्टभिः स्थलैर्द्रव्यनिर्णयं करोति । तद्यथा - अथ सम्यक्त्वं कथयति— 2 तम्हा तस्स माई किच्चा णिच्चं पि तम्मणो होज । वोच्छामि संगहादो परमदुविणिच्छयाधिगमं ॥ * १ ॥ तम्हा तस्स णमाई किच्चा यस्मात्सम्यक्त्वं विना 'श्रमणो न भवति तस्मात्कारणात्तस्य सम्यक्चारित्रयुक्तस्य पूर्वोक्ततपोधनस्य नमस्यां नमस्त्रियां नमस्कारं कृत्वा णिच्चं पि तम्मणो होज्ज नित्यमपि तद्गतमना भूत्वा वोच्छामि वक्ष्याम्यहं कर्ता संगहादो संग्रहात्संक्षेपात्संक्षेपात्सकाशात् । किम् । परमट्ट विणिच्छयाधिगमं परमार्थविनिश्वयाधिगमं सम्यक्त्वमिति परमार्थविनिश्चयाधिगमशब्देन सम्यक्त्वं कथं भण्यत इति चेत् परमोऽर्थः परमार्थः शुद्धबुद्वैकस्वभावः परमात्मा, परमार्थस्य विशेपेण संशयादिरहितत्वेन निश्चयः परमार्थनिश्चयरूपोऽधिगमः आगे ज्ञेयतत्त्वका कथन करते हुए उसमें भी पहले पदार्थोंको द्रव्य, गुण, पर्याय, स्वरूप
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy