SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १०० - रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ७९*५यः खलु समस्तसावद्ययोगप्रत्याख्यानलक्षणं परमसामायिकं नाम चारित्रं प्रतिज्ञायापि शुभोपयोगवृत्त्याटकाभिसारिकयैवाभिसार्यमाणो न मोहवाहिनीविधेयतामविकिरति स किल समासन्नमहादुःखसङ्कटः कथमात्मानमविप्लुतं लभते. । अतो मया मोहवाहिनीविजयाय बद्धा कक्षेयम् ॥ ७९ ॥ ___ अथ कथं मया विजेतव्या मोहवाहिनीत्युपायमालोचयतिविस्तरः-कोऽपि मोक्षार्थी परमोपेक्षालक्षणं परमसामायिकं पूर्व प्रतिज्ञाय पश्चाद्विषयसुखसाधकशुभोपयोगपरिणत्या मोहितान्तरङ्गः सन् निर्विकल्पसमाधिलक्षणपूर्वोक्तसामायिकचारित्राभावे सति निर्मोहशुद्धात्मतत्त्वप्रतिपक्षभूतान् मोहादीन त्यजति यदि चेत्तर्हि जिनसिद्धसदृशं निजशुद्धात्मानं न लभत इति सूत्रार्थः ॥७९॥ अथ शुद्धोपयोगाभावे यादृशं जिनसिद्धवरूपं न लभते तमेव कथयति तवसंजमप्पसिद्धो सुद्धो सग्गापवग्गमग्गकरो। अमरासुरिंदमहिदो देवो सो लोयसिहरत्थो ॥ *५ ॥ तवसंजमप्पसिद्धो समस्तरागादिपरभावेच्छात्यागेन स्वखरूपे प्रतपनं विजयनं तपः, बहिरङ्गेन्द्रियप्राणसंयमबलेन खशुद्धात्मनि संयमनात्समरसीभावेन परिणमनं संयमः, ताभ्यां प्रसिद्धो जातस्तपःसंयमप्रसिद्धः, सुद्धो क्षुधाधष्टादशदोषरहितः सग्गापवग्गमग्गकरो खर्गः प्रसिद्धः केवलज्ञानाद्यनन्तचतुष्टयलक्षणोऽपवर्गो मोक्षस्तयोर्मागं करोत्युपदिशति वर्गापवर्गमार्गकरः, अमरासुरिंदमहिदो तत्पदाभिलाषिमिरमरासुरेन्द्रर्महितः पूजितोऽमरासुरेन्द्रमहितः देवो सो स एवं गुणविशिष्टोऽर्हन् देवो भवति । लोयसिहरत्थो स एव भगवान् लोकाग्रशिखरस्थः सन् सिद्धो भवतीति जिनसिद्धखरूपं ज्ञातव्यम् ॥५॥ अथ तमित्थंभूतं निर्दोषिपरमात्मानं ये श्रद्दधति मन्यन्ते तेऽक्षयसुखं लभन्त इति प्रज्ञापयति तं देवदेवदेवं जदिवरवसहं गुरुं तिलोयस्स । पणमंति जे मणुस्सा ते सोक्खं अक्खयं जंति ॥ ६ ॥ तं देवदेवदेवं देवदेवाः सौधर्मेन्द्रप्रभृतयस्तेषां देव आराध्यो देवदेवदेवस्तं देवदेवदेवं, जदिवरवसहं जितेन्द्रियत्वेन निजशुद्धात्मनि यत्नपरास्ते यतयस्तेषां वरा गणधरदेवादयस्तेभ्योऽपि वृषभः प्रधानो यतिवरवृषभस्तं यतिवरवृषभ, गुरुं तिलोयस्स अनन्तज्ञानादिगुरुगुणैस्त्रैलोक्यस्यापि गुरुस्तं त्रिलोकगुरुं पणमंति जे मणुस्सा तमित्थंभूतं भगवन्तं ये मनुध्यादयो द्रव्यभावनमस्काराभ्यां प्रणमन्त्याराधयन्ति ते सोक्खं अक्खयं जंति ते तदाराधलभते] नहीं पाता । भावार्थ-जो पुरुष सब पाप क्रियाओंको छोड़कर परम सामायिक नाम चारित्रकी प्रतिज्ञा करके शुभोपयोग क्रियारूप मोह-ठगकी खोटी स्त्रीके वशमें होजाता है, वह मोहकी सेनाको नहीं जीत सकता, और उसके समीप अनेक दुःख 'संकट हैं, इसलिये निर्मल आत्माको नहीं पाता । इसी कारण मैंने मोह-सेनाके जीतनेको कमर बाँधी है ॥ ७९ ॥ आगे मुझसे मोहकी सेना कैसे जीती जावे, ऐसे
SR No.010843
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorA N Upadhye
PublisherManilal Revashankar Zaveri Sheth
Publication Year1935
Total Pages595
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy