________________
आर्यासप्तशती ।
एकारव्रज्या ।
७९
नायकोsधरं स्तौति
को हरः प्रियाधरगुणवेदी दिविषदोऽपरे मूढाः । विषममृतं वा सममिति यः पश्यन्गरलमेव पपौ ॥ १४२ ॥ एक इति । प्रियाधरगुणान्वेत्ति । एवं च विशिष्य वक्तुमशक्यत्वं गुणेषु व्यज्यते । एको हरः । एवं च विरक्तवेषवत्तया नान्यथाभाव आशङ्कनीय इति भावः । अन्ये देवा मूढाः । उभयत्र हेतुमाह यो हरो विषममृतं वा सममिति विचारयन्गरलमेव पपौ । एवं च प्रियाधरं विनामृतमपि विषतुल्यमिति व्यज्यते । दिविषदस्तु कमलाधरार्थं यत्नमकुर्वाणा अमृतार्थ च कुर्वाणास्ततस्तदधिकमिति भन्वाना मूढा इति भावः । यद्वा एको हरः प्रियाधरगुणज्ञानवान्, नान्ये देवाः । किं पुनर्मानुषा इति भावः । यतो यो विषमप्यमृततुल्यं विज्ञाय तदेव पपौ । एवं च प्रियाधरपानसंबन्धिनिवेदने विषमप्यमृतं भवतीति भावः । एवं च प्रियाधरेऽधिकत्वं सुघातो द्योत्यते । अत्रोभयत्र विषगरलपदान्यतरस्यैवोपादानमुचितमित्याभाति ॥
काचिद्दुष्टा प्रियगमनावसरेऽपुनरावृत्त्यर्थममङ्गलं कुर्वाणा तदमङ्गलभीत्यावस्थितं नायकमवलोक्यान्यथाचिन्तितस्यान्यथाभवनं दैवाधीनमिति सखीं वक्ति
एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि । अधुना तदेव कारणमवस्थितौ दग्धगेहपतेः ॥ १४३ ॥ एष्यतीति । अयं पुनर्मा एतु, एतदर्थं यदमङ्गलं गमनकालेऽकारि तेनैव कारणेन ज्वलितगृहपतेरवस्थितिः संवृत्तेत्यर्थः ॥
त्वय्येवासक्तास्ति सेति सखी नायकं बक्ति-
एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला । विश्राम्यति सुभग त्वामङ्गुलिरासाद्य मेरुमिव ॥ १४४ ॥
एकैकश इति । प्रत्येकमित्यर्थः । 'एकैकशो दत्त्वा, एकैकशो ददाति इति भाष्यकारप्रयोगद्वयवच्छस्। 'इहेदानीमेकैकशो वैधर्म्यमुच्यते, एकैकशखाबनलोक्य येऽन्यत्रैकैकशो दुर्लभाः' इति प्रशस्तपादभाष्य स्वयंवरप्रस्तानीयवासवदत्तासमाप्तकल्पदशकुमारप्रयोगाश्वेत्यलमत्र विचारेण । युवजनम् । युवपदेन स्पृहणी