SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आयोसप्तशती। काधिनायिका नायकीयविलम्बागमनजन्यं मानमासाद्य खल्पावशिष्टयामिन्यां नायकेन दूरीकृताभिमाना रात्रिः खल्पावशिष्टेति विज्ञायानुशोचति उपनीय प्रियमसमयविदं च मे दग्धमानमपनीय । नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥ १३७ ॥ उपनीयेति । हे क्षणदे रात्रि । 'त्रियामा क्षणदा क्षपा' इत्यमरः । अथ चोत्सवदे । एवं चोत्सवदायास्तदभावसंपादनमनुचितमिति व्यज्यते । असमयविदं समयज्ञानशून्यम् । एवं च पूर्वरात्रावागमनमुचितमिति व्यज्यते। प्रियम् । एवं च दुर्लभत्वं द्योत्यते। उपनीय प्रापय्य । असमयविदं रात्रेरल्पावशिष्टत्वेन करणानहम् । अत एव दग्धं मे मानं च । किमर्थ विलम्बितमिति हेतोः संजातमित्यर्थः । दूरीकृत्य क्रीडोपक्रम एव दूतीव । दूतीपदं संगतिसंपादनमात्रकर्तृत्वं द्योतयति। चलितासि । दूत्यपि नायकमानीय मानमपनीय क्रीडारम्भ एव निर्गच्छवीति लौकिकम् । नायिका चेयं परकीया ॥ त्वत्करस्पर्शनादेवास्मत्सखी विगतधैर्या सती वामनुसरतीति नायिकासक्ति सखी वकि उत्तमवनितैकगतिः करीव सरसीपयःसखीधैर्यम् । आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन्हरसि ॥ १३८ ॥ उत्तमेति । उत्तमवनितानामेकगतिरूपः। एवं च खानुरूपान्यनायकाभावेन नायिकासक्तिस्त्वयि युक्ततरेति व्यज्यते। पक्ष उत्तमवनितावदेका मुख्या गतिर्यस्य । आस्कन्दितावूरू जले येन तेन । पक्षे संस्पृष्टखजरेन । हस्तेनैव । पक्षे शुण्डा. दण्डेनैव स्पृशन्करी सरसीपय इव सख्या धैर्य हरसि । एक्कारेणालिङ्गनादौ कि किं हरिष्यसीति न विद्म इति व्यज्यते ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेतोकारव्रज्या। , ऊकारव्रज्या। कांचिजरठविवाहितां तदीयप्रेमराहित्यखिन्नां सख्यन्योक्त्या वक्ति अढामुनातिवाहय पृष्ठे लमापि कालमचलापि । १. सर्वसहे कठोरत्वचः किमन कमठस्य ॥ १३९ ॥ .: ऊडेति । हे सर्वसहे वसुमति । एवं चैतदीयापराधसहने तब न किंचित्कठि
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy