________________
काव्यमाला।
समीपे संस्थाप्य सभयः । कथमियं जीविष्यतीति वियेति भावः । हलिकः । एवं च मूर्खत्वं व्यज्यते । चिकित्सके वैये, वधूस्तने, शोणमारक्तम् , अर्धचन्द्राकारम् , उप समीपे जातम् , व्याधि रोगं कथयति । एवं चैतस्यैतनखक्षतज्ञानं नास्तीति व्यज्यते। तेन त्वया यथेष्टमागन्तव्यं चेति । कुडवशब्दः परिमाणविशेषवाचीति केचित् ॥
कांचिदग्निं ज्वालयन्ती जारातिसक्त्या मानसतत्संभोगं कुर्वती धूर्तनिजदयितेनालोच्यमानां सनिहवं सखी निवारयति
उन्मुकुलिताधरपुटे भूतिकणवासमीलितार्धाक्षि ।
घूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ॥ १३१ ।। उन्मुकुलितेति । उत्कृष्टमुकुलवदाचरितमधरपुटं यया तत्संबुद्धिः । वहिप्रज्वलनाय फूत्कारविधानादिति भावः । भूते स्मनः कणानां त्रासेन नेत्रान्ते भस्मसंबन्धभयेन मीलिते अर्धमक्षिणी यया तत्संबुद्धिः । एवं च विशिष्य श्रमराज्ञानादूमश्रमवत्त्वौचित्यं व्यज्यते । धूमोऽपीह न । अपिना व्यक्तिव्यवच्छेदः । विरम फूत्कारकरणादिति भावः । ननु धूमलेखा दृश्यते, तत्कथम् 'नेह धूमः' इति वदसी: त्साह ते श्वसितं भ्रमरोऽयमनुसरति । एवं च त्वद्वदनामोदवशाअमरः परिभ्रमति, परंतु न वास्तवो धूमः । अतोऽनर्थकैतद्यापाराद्विरमेति भावः । इति निहवपुरःमरमधरोन्मुकुलननयनानिमीलने फूत्कारभस्मसंबन्धभयेन समाधातुं शक्ये, परंतु कथमपि श्वसितं न समाहितुं शक्यम् । अयं च ते श्रमर इव भ्रमरः । यद्वा भ्रमं राति । एवं च यथार्थवार्ताग्राहकस्यास्य यथार्थवार्ताग्रहणे न कोऽपि विलम्बः। दयितश्च श्वसितमिदमवश्यं ज्ञास्यत्येव । तव त्वधरोन्मुकुलनयनानिमीलनश्वसितानि मानससंभोगजन्यान्येव । अतो न बिधेयमेतदिति व्यज्यते। यद्वा वहिप्रज्वालनार्थमादिष्टां तत्समय एव जाराय चुम्बनं प्रयच्छन्तीं नायिकामवलोक्य तत्सखी तदुत्साहवर्धनाय वक्ति-हे भूतिकणत्रासमीलितार्धाक्षि, इति । सोल्लुण्ठनवचनमेतत्। एवं च न भूतिकणत्रासेम तवाङक्षिनिमीलनम् , अपि तु जारचुम्बनसुखोदयेनैति व्यज्यते । उन्मुकुलितम् । चुम्बनार्थमिति भावः। अघरपुटं येन तस्मिन् । इह जारो न विरमति । चुम्बनदानार्थमिति भावः । दन्तक्षतमीतिं खयमाश परिहरति-अपिरवधारणे ।। मकारोऽप्यत्रान्वेति । अयं धूमो न, किंतु भ्रमर एव श्वसितम् । वार्थान्तव, अनुसरक्ति । एवं. च न धूमलेखा, अपि तु फूत्कारकोलीनुत्वबदनसीरमौरभ्यछम्युनमधुकरं श्रेशिरत एतामिणैव दन्तशतसमा