________________
काव्यमाला।
श्रीमन्त इति व्यज्यते । यद्वा कस्याश्चिनिदर्शनं प्रदर्य कश्चित्कांचिद्वति । एवं च सैव गवं करोतु, तव तु तत्करणमनर्थकमिति व्यज्यते॥ नैष समयो जारसविधे गन्तुमिति काचित्कांचिद्वक्ति. उल्लसितलाञ्छनोऽयं ज्योत्लावर्षी सुधाकरः स्फुरति ।
आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥ ११९ ॥ उल्लसितेति। उल्लसितं लाञ्छनं यस्य, ज्योत्स्ना कौमुदी वर्षति, असो सुधाकरश्चन्द्रः स्फुरति । आसक्तः कृष्णचरणो यस्मिन् । कृष्णत्वेन लाञ्छनवतासादृश्यम् । प्रकटितं क्षीरं येन । क्षीरपदेनज्योत्नावत्त्वसादृश्यम् । शकट इवासुरविशेष इव । एवं चैतत्समये गमने लाञ्छनमवश्यं भविष्यतीति व्यज्यते ॥ खमनोरथं काचित्कांचिद्वक्ति
उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा ।
अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥ १२०॥ उपचारेति । कितवस्य धूर्तस्य, ते पूर्वप्रसिद्धा, उपचारेण अनुनयाः प्रसादनानि । एवं च न वास्तवा इति भावः । यद्वोपचारा अनुनयाश्च सख्याः । एवं च तद्वचनादरकरणयोग्यत्वं व्यज्यते । वचनेन, एवमेव मानस्त्वया संस्थाप्यः क्षणो: त्तरमयमवश्यमेस्य ते वश्यो भविष्यतीत्येवंरूपेण, उपेक्षिता अगणिताः । एवं च खस्यापराधशून्यत्वं ध्वन्यते । अधुना स निष्ठुरमपि परुषमपि । एवं च समीचीनभाषणं दुरापास्तमिति भावः । यदि वदति तर्हि कलिकैतवात्कलहकपटाद्यामि गच्छामि । अर्थात्तं द्रष्टुमिति भावः । एवं चाधुना तेन तथौदासीन्यमालम्बितं यथा न निष्ठुरमपि वक्ति । येन किमिति तादृशं वदसीति वक्तुमहं गमिष्यामीति भावः । एवं चाधुना कोऽप्युपायस्तद्दर्शन इति चिन्ताविशयो द्योत्यते ॥ सखी नायिका वक्ति
उपसि परिवर्तयन्त्या मुक्तादामोपवीतता नीतम् ।
पुरुषायितवैदग्ध्यं ब्रीडावति कैर्न कलितं ते ॥१२१ ॥ उषसीति । व्रीडावति, उपवीतता नीतम् । उपवीतरूपं कृतमित्यर्थः । मुक्कादाम परिवर्तयन्त्याः सज्जीकुर्वन्त्या उपसि पुरुषायितस्य वैदग्ध्यं कैर्न कलितम् । अपि तुः सर्वैरिति भावः । एवं चेदानी मत्समक्षं लज्जां माटथसि, परंतु त्वदीयतकालीनलजाशन्यत्वं तथाविधमुक्तपदामपरिवर्तनमेव सर्वेषां कथयतीति भावः ॥ .