SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आर्यासक्ती । कयाचन विलोकितः कश्चित्तस्था विलोकनसुखं खस्य सखायं वतिअस्याः कररुहखण्डितकाण्डपटप्रकटनिर्गता दृष्टिः । पटविगलितनिष्कलुषा खदते पीयूषधारेव ॥ ३७ ॥ अस्या इति । अस्या नखसच्छिद्रीकृतकाण्डपटस्पष्टनिर्गता दृष्टिः । वसनविग - लितात एव कालुष्यरहिता पीयूषधारेव खदते । एवं च दृशि न केवलं संतापा• पनोदकत्वम्, अपि तु प्राणप्रदत्वमिति ध्वन्यते ॥ १९ पतिगृहगमनार्हा कांचित्काचित्कस्याश्चिद्वार्तापुरःसरं वक्ति अस्याः पतिगृहगमने करोति मातापिच्छिलां पदवीम् । गुणगर्विता पुनरसौ हसति शनैः शुष्करुदितमुखी ॥ ३८ ॥ अस्या इति । अस्याः पतिगृहगमने । गमनं प्राथमिकम् । माता । एवं च बात्सल्यं व्यज्यते । अश्रुभिः पिच्छिलां पदवीं करोति । पिच्छिलामित्यनेनाश्रुबाहुल्यं द्योत्यते । गुणगर्विता पुनरसौ शुष्करुदितमुखी । अभ्रूणामभावादिति भावः । शनैर्हसति । एवं च यथेयं गच्छति तथैव त्वया गन्तव्यमिति द्योत्यते । कस्याचिद्वार्ता काचिद्वतीति वा ॥ 1 अङ्के निवेश्य कूणितदृशः शनैरकरुणेति शंसन्त्याः । मोक्ष्यामि वेणिबन्धं कदा नखैर्गन्धतैलाक्तैः ॥ ३९ ॥ अङ्क इति । अड्डे निवेश्य कूणिता संकोचिता दृग्यया । चिरबद्धवेणीबन्धविस्रंसनजन्यदुःखवशात्कूणितत्वम् । अत एव अकरुण, शनैरिति शंसन्त्याः । यद्वा चिरप्रवासित्वेन अकरुणेति संबुद्धिः । अकरुण इति शनैः शंसन्त्या इति वा । नायके प्रवासिनि न केशसंस्कार इति सतीसंप्रदायः । गन्धतैलाक्तैर्नखैः कदा वेणीबन्धं मोक्ष्यामि । पथिकाशंसनमेतत् ॥ कथमकृतभूषणाहमागमिष्यामीति वादिनीं दूती वक्ति अलमनलंकृतिसुभगे भूषणमुपहासविषयमितरासाम् । कुरुषे वनस्पतिलता प्रसूनमिव वन्ध्यवल्लीनाम् ॥ ४० ॥ अलमिति । यद्वा सर्वासामन्यासां भूषणम्, न मत्यमिति खिनां सखी १. तिरस्करिणी. 'वानात' इति भामो.
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy