________________
आर्यासप्तशती।
२५ कश्चिइव्योन्मादवतीं निजकुलद्वेषिणीमन्योक्त्या वक्ति
अयि कूलनिचुलमूलोच्छेदनदुःशीलवीचिवाचाले ।
बकविघसपङ्कसारा न चिरात्कावेरि भवितासि ॥ ३ ॥ अयीति। अयि । कूलनिचुलस्तीरवृक्षः । यद्वा 'निचुलो हिजलोऽम्बुजः' इत्यमरादाविशेषः । एवं च तत्प्रतिपालनमुचितमित्यावेद्यते । तस्य यन्मूलोच्छेदनम् । एवं चासह्यत्वं ध्वन्यते। तत्र दुःशीलास्तत्कारिण्यो लहर्यस्ताभिः कुत्सितबहुभाषिणि। कावेरि । बकस्य । न तु हंसादेः । विघसो भोजनशेषो यः पङ्कः । क्षुद्रमत्स्यादेवकभुक्तत्वादिति भावः । स एव सारो यस्याः । न चिरात् शीघ्रमेव । भवितासि । एवं च परोपकारकारकस्य खकुलप्रभवस्योन्मादवशान्मम दुःखं ददासि तत्ते दुष्टभोजनावशेषद्रव्यं शीघ्रमेव गमिष्यतीति ध्वन्यते ॥ काचिन्नायिका परपुरुषसंगमाय प्रलोभकारिणी दूती प्रत्याह
अयि विविधवचनरचने ददासि चन्द्रं करे समानीय । व्यसनदिवसेषु दूति क पुनस्त्वं दर्शनीयासि ॥ ४ ॥ अयोति । हे दूति । एवं च खकार्यमात्रसंपादकत्वम्, न त्वन्यदीयाश्रिमाकार्यविचारकारित्वमिति द्योत्यते । नानाप्रकारशालिवचनरचने । एवं च प्रलोभनकारित्वम् , वश्चनानिपुणत्वम् , विश्वासानहत्वम् , उत्तरप्रत्युत्तरकरणानहत्वं च ध्वन्यते । चन्द्रं समानीय करे ददासि करगोचरं करोषि । असंभाविनमप्यर्थ जातप्रायं कृत्वा प्रदर्शयसीति भावः । व्यसनमपकीर्त्यादि । तत्काले त्वं कुत्र दर्शनीयासि । एवं च त्वया घटनामानं कर्तुं शक्यम्, न त्वपकीादिनिवारणमिति भावः । यद्वा भाविवियोगमीता नायिका संघटनमात्रकारिणी दूती प्रत्याह । विविधवचनरचने इत्यनेन दुष्प्रापोऽपि नायकस्त्वया समानेतुं शक्य इति द्योत्यते। चन्द्रमित्यनेनाहादजनकतयावश्यस्पृहणीयत्वमावेद्यते । व्यसनम् । वियोगदुःखदत्वादिति भावः । लं कुत्र दर्शनीयासि । एवं चाग्रे यथा वियोगो न भविष्यति तथा यदि त्वया कर्तु शक्यं तर्हि त्वदुदीरितं संपादयामीति द्योत्यते ॥ अपकीर्त्यादिना खपरित्यागं संभावयन्ती नायिका दूती समाधत्ते
अस्तु म्लानिर्लोको लाञ्छनमपदिशतु हीयतामोजः ।
तदपि न मुञ्चति स त्वां वसुघाछायामिव सुधांशुः ॥ ५॥ अस्त्विति । म्लानिर्निस्तेजस्कत्वमस्तु । जनो लाञ्छनमपवादम्। पक्षे