________________
काव्यमाला।
सानिध्येनादर्शने । धर्मकर्म संकुचितम् । तातसदृशस्यान्यस्य धर्मकर्मप्रवर्तकस्याभावादिति भावः । पक्षे मलमास इव शुकास्तेऽपि केषांचित्कर्मणां निषेधादिति मावः । यद्वा यस्य तातस्य धर्मकर्म । एवं चाधर्मकर्मणोऽभावो व्यज्यते । संकुचितं सम्यक् को पृथिव्यां चितं व्याप्तम् । आस्ते । एवं च कर्मठत्वेन सर्वत्र तातप्र. सिद्धिरिति भावः । यता यस्याधर्मकर्मविषये संकुचितं संकोचः । मीतिरिति यावत् । भाते । कविं काव्यकर्तारम् । पक्षे तमामानम् । उशनसमिव शुक्रमिव । तं प्रसिद्ध तातं नीलाम्बराभिधं वन्दै ॥
सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुदबन्धोश्च ।
सेनकुलतिलकभूपतिरेको राकाप्रदोषश्च ॥ ३९ ॥ सकलेति। प्रबन्धस्य चतुःषष्टिकलाः। कुमुदबन्धोश्चन्द्रस्य च षोडशकलाः । कल्पयितुं वक्तुं कर्तुं वा । पक्षे दर्शयितुम् । सेनकुलतिलकभूपतिः सेतुकर्ता प्रवरसेननामा राजा । पौर्णमासीप्रदोष एकः प्रभुः समर्थः । नान्य इत्यर्थः ॥
काव्यस्याक्षरमैत्रीभाजो न च कर्कशा न च ग्राम्याः ।
शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥ १०॥ काव्यस्येति । अक्षराणां वर्णानां मैत्रीमेकवर्गपठितत्वादिरूपाम्। एकस्थानकत्वे सत्येकप्रयत्नकत्वरूपा वा भजति तस्य । एवं च बन्धविशेषशालित्वं व्यज्यते । पुरुषविशेषणमप्यक्षरमैत्रीभाज इति । काव्यस्य योजनाविशेषवच्छब्दार्थोभयस्य अर्थबोधाय । कर्कशाः श्रुतिकटवः । तेषां रसापकर्षकत्वादिति भावः । पक्षे क्रूर. मतयः । एवं च परोकिखण्डनमात्रनिपुणत्वं च व्यज्यते । न च प्राम्या अविदग्धप्रयुक्ताः । एवं च चारुत्वाभावो व्यज्यते । पक्षे प्राममात्रवासिनः । एवं च काव्यवासनावासितान्तःकरणत्वाभावो ध्वन्यते । शब्दा अपि पुरुषा अपि । किं तु साधव एव । व्याकरणसिद्धा एव असाधुत्वज्ञानस्यार्थबोधप्रतिबन्धकत्वात् । पक्षे निर्मलमतय एव । एवं चार्थप्रतिबिम्बभवनयोग्यत्वं द्योत्यते । यद्वा काव्यार्थवासनाशालिन इत्यर्थः । एवं चान्येषां काव्यबोधानहत्वमिति भावः ॥
१. सेनकुलं कायस्थकुलं वङ्गदेशप्रसिद्धम्. तत्तिलकायमानो भूपतिर्लक्ष्मणसेनः. यत्सभायां गोवर्धनाचार्य आसीद. न तु सेतुबन्धकान्यकर्ता कश्मीरमहाराजः प्रवरसेनः. स तु क्षत्रियकुलावतंस आसीदिति राजतरङ्गिण्या स्फुटमेव.