SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अनुरागेण व्यक्तीकृतः । एवं चातिनिगूढनिजकार्यसाधकतयानया सदृशी न काप्यन्येति ध्वन्यते । यत्र भावे दूती न प्रकटनसमर्थेति भावः । यत्र निहिताः प्रेरिताः प्रेमार्दा दशोऽपि न । स्निग्धा वाचोऽपि न प्राकट्यसंपादिका इति भावः । स भावो रसानुकूलविकारो निपुणया। समयज्ञत्वादिति भावः । प्रीत्या प्रकटीकृतः। एवं च योऽनुभावो मत्प्रेषितदूतीप्रेषणादिव्यापारैर्न प्रकटीकृतः, स भावोऽद्य खयं समयविशेषमासाद्य व्यकीकृत इति लोकोत्तरचातुर्यशालित्वमावेद्यत इति वार्थः । 'स भावोऽनुगमनेन' इति पाठे तन्मरणोत्तरं तत्प्राणपरित्यागेनेयमसिनासकेति ज्ञातमित्यर्थः । क्वचित् ‘स जारोऽनुमरणेन' इति पाठः ॥ सपत्न्यधीनत्वादिकमसम्यगिति काचित्कांचिद्वक्ति या नीयते सपल्या प्रविश्य यावर्जिता भुजंगेन । यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ।। ४६३ ॥ या नीयत इति । सपनया पतिप्रियान्तरया । पक्षे गगया। नीयते । पतिसविध इति भावः । पक्षे समुद्रसविधे । भुजंगेन । पक्षे सर्पण । प्रविश्य यावर्जिता खाधीनीकृता । यमुनाया इव तस्या जीवनं जीवितम् । पक्षे जलम् । सखि, मलिनं निन्द्यम् । पक्षे श्यामम् । मन्ये । एवं चैतादृशतया स्थेयं नायिकया येनोपायेन गृहे सर्वाधिकतयावस्थानं भवतीति वन्यते । यमुनाजलं श्याममिति कविसंप्रदायः॥ दूती नायिका केनचिन्नायकेन सह संगमयितुं वक्ति- यस्मिन्नयशोऽपि यशो हीर्विनो मान एव दौःशील्यम् । 'लघुता गुणज्ञता किं नवो युवा सखि न ते दुष्टः ॥ ४६४ ।। यस्मिन्निति । यस्मिन्यद्विषये तेऽकीर्तिरपि कीर्तिः । लज्जा विघ्नः । मानकरणमेव दुःशीलता । एवकारेण तत्कार्यविरुद्धवचनादेः का वार्तेति भावः । लघवं गुणप्रवणता । एतादृशो नूतनः । एवं चावश्यकग्राह्यदर्शनयोग्यत्वं व्यज्यते । तरुणः। एवं च स्पृहणीयत्वमावेद्यते । हे सखि । एवं च हितकथनार्हवं द्योत्सते । किन दृष्टः । त्वयेति शेषः । एवं चैतादृशो गुणरूपयौवनादिसंपनो नान्योऽस्ति नायकः । अत एतद्दर्शनाय त्वरस्वेति ध्वन्यते । अथवा त्वत्संबन्धी युवास्माभिः किं न दृष्टः । अपि तु दृष्टः । एवं च सम्यक्त्वया संपादितं यदेतादृश आसक्तिः संपादिवेति ध्वन्यते । इति सखीवाक्यम् ॥ .
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy