________________
आर्यासप्तशती ।
१२१
शालभर्जी काष्ठपुत्तलिका कीटमिवान्तः खान्तेभ्यन्तरे च वहति । एवं चैतादृशान्तर्दुःखशुष्काया अपि तस्यास्तवासक्तिरिति व्यज्यते ॥
निरपराधिनं कमपि कैश्चित्पीड्यमानं कश्चिदन्योक्त्या वक्ति
तृणमुखमपि न खलु त्वां त्यजन्त्यमी हरिण वैरिणः शबराः । यशसैव जीवितमिदं त्यज योजितशृङ्गसङ्ग्रामः ॥ २६४ ॥
तृणेति । हे हरिण । तृणमुखमपि । एवं च निरपराधित्वं ध्वन्यते । शरणागतत्वं वा । त्वाममी वैरिणः शबरा मिल्लाः खलु न त्यजन्ति । योजित विषाणयुद्धः कीर्त्यैवेदं जीवितं त्यज । एवं च प्रबलदुष्टशत्रुसंबन्धे युद्धेन मरणमेव वरम्, पुनः पलायनं न वा शरणगमनमिति व्यज्यते ॥
न
कश्चिन्मानिनीचरणकृतमतकं तया च केशाकर्षणेन दूरीकृतमात्मानं विज्ञाय
तां वक्ति
त्रिपुररिपोरिव गङ्गा मम मानिनि जनितमदनदाहस्य । जीवनमर्पितशिरसो ददासि चिकुरग्रहेणैव ॥ २६५ ॥
त्रिपुरेति । हे मानिनि । जनितो मदनेन दाहो यस्य । पक्षे जनितो मदनस्य दाहो न । तस्य । अर्पितमस्तकस्य । चरणयोः प्रणामार्थम् । पक्षे गङ्गाप्रवाहग्रहणार्थमिति भावः । मम त्वं महादेवस्य गङ्गेव चिकुरग्रहेणैव जीवनं जीवितम् । पक्षे जलम् । ददासि । एवं च त्वत्कोपेन जीवननिरपेक्षस्यापि मम क्रोधादपि त्वत्करस्पर्शेन संतापनिवृत्त्या जीवनं किमु प्रसन्नया त्वया कृतकरस्पर्शेन जीवनमिति ध्वन्यते । गौतमप्रार्थितगङ्गाप्रवाहसहनाय शिवेन शिरोऽप्रे कृतमिति पुराणप्रसिद्धिः ॥ सर्वसखीगोपनपुरःसरं केनचित्सह संयोगं विधाय स्थितां नायिकां काचित्सखी 'त्वया तेन सह रतं कृतम्' इति वक्ति
-
त्वत्संकथासु मुखरः सनिन्दसानन्दसावहित्थ इव ।
स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥२६६॥
त्वदिति । स सुभगो नायकः । सुभगत्वं च सकलसखीगोपनपुरःसरं नायिकया कृतार्थीकरणात् । खलु निश्चयेन सखीनां निमृतं यथा स्यात्तथा । सखीनामिति बहुवचनेन सर्वप्रतारणकरणसमर्थायास्तव मत्प्रतारणमतिसुकरमित्यावेद्यते । त्वया कृतार्थीकृतः । यतस्त्वदीयसद्वार्तासु । कचिज्जायमानाखिति भावः । सनिन्द इव ।