________________
आर्यासप्तशती ।
१०५
विलोक्य शिरसि चरणेन निहतोऽस्मि । कथमीदृशावसरेऽप्येतादृशमकारि त्वयेति दोषख्यापनेनेति भावः ॥
नायकान्तरातिशयितरतातिवाहितयामिनीं प्रातस्तद्दत्तनखक्षतावलोकनकृतक्रोधां नायिकां सखी वक्ति -
गुरुपक्ष्म जागरारुणघूर्णत्तारं कथंचिदपि वलते । नयनमिदं स्फुटनखपदनिवेशकृतकोपकुटिलभ्रु ॥ २१७ ॥
1
1
गुर्विति । स्फुटनखपदनिवेशनेन । नायकदत्तेनेति भावः । कृतो यः कोपः । लोकज्ञानभिया । तेन कुटिलभ्रुकुटि । गुरुपक्ष्म । सालसत्वादिति भावः । जागरणेन रक्कं तेनैव घूर्णत्तारमिदं तव नेत्रं महता क्लेशेनापि वलते परिवर्तते । नखपदनिवेश इति भावः । एवं चैकनखक्षतविलोकनेन क्रुध्यसि, परमन्यानि नखक्षतानि नावलोकयसि । रात्रिजागरबाहुल्यालसनेत्रतयेति भावः । एवं च तदानीं न कापि भीतिः कृता, इदानीं तत्करणमनर्थकमिति व्यज्यते । यद्वा प्रकटनखक्षतदर्शनेन क्रोपः क्रियते । अप्रकटानि च बहूनि सन्ति । तद्दर्शनं च ते सालसनेत्रतया न भावीति द्योत्यते । ‘निवेशने' इति पाठे स्फुटनखपदस्य निवेशने दाने कोपेन कुटिलनु । स्फुटपदेन दृढत्वमावेद्यते । क्वचित् 'दृढ' इत्येव पाठः । गुरुपक्ष्म । सालसत्वादिति भावः । जागरारुणघूर्णत्तारमिदं नयनम् । 'तव' इति पदानुपादानं नयने नायिकाविधेयत्वं ध्वन्यते । कथंचिद्वलते । एवं च गमनकालीननखक्षतदानेऽपि केवलं भ्रुकुटिकौटिल्यमेव करोषि परं तु रात्र्यतिशयितरतनिःसहतया नेत्रव्यापारमपि कर्तुं न शक्नोषि । तत्र का वार्तोत्थाय करग्रहादेरिति भाव इति नायिकासखीवाक्यमिदम् । केचित् 'खनायकेन सह क्रीडातिवाहितरजनीं स्फुटतरनखक्षतदर्शनजातलज्जावशादुत्पन्नक्रोधां नायिकां सखी बक्ति' इत्याहुः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता गकारत्रज्या ।
घकारव्रज्या ।
नायिकासखी नायकं वक्ति
घटितजघनं निपीडितपीनोरु न्यस्तनिखिलकुचभारम् । आलिङ्गन्त्यपि बाला वदत्यसौ मुञ्च मुञ्चेति ॥ २९८ ॥ -
घटितेति । घटित जघनमित्यादिना रतेच्छावत्त्वमावेद्यते । आलिङ्गन कारिण्य