SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २२८ अध्यात्मतत्त्वालोकः । १३ नारीपशुक्लीत्रकुशीलवर्ज स्थान विविक्तं किमपि श्रयेत । नानासनानामपि यत् स्थिरं च सुखं च भासेत तदाश्रयेत ॥ १४ ध्यानाय कालोsपि मतो न कोऽपि यस्मिन् समाधिः समयः स शस्यः । ध्यायेन्निषण्णः शयितः स्थितो वाs वस्था जिता कापि मतानुकूला ॥ १५ ध्यानस्य सिद्धचै दृढभावनानामावश्यकत्वं विबुधा वदन्ति । मैत्री प्रमोद करुणामुपेक्षां युञ्जीत, तद् ध्यानमुपस्करोति ॥ १६ सर्वेऽपि जीवाः सुखिनो भवन्तु मा कोऽपि पापाचरणानि कार्षीत् । एव जगज्जन्तुषु चित्तवृत्ति कल्याणभावां प्रवदन्ति मैत्रीम् ॥ [ पछँ
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy