SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०२ अध्यात्मतत्त्वालोकः । [पञ्चम मनोविशोधन विनैव योग धराधरारोहणमीहते यः। प्रहस्यते पङ्गुरिव क्रमाभ्यां देशाटनं कर्तुमनाः स मूढः ॥ रुद्धानि कर्माणि मनोनिरोधे मनःप्रचार प्रसरन्ति तानि । असंयमः सयम एव तस्य भवस्य मोक्षस्य समस्ति मूलम् ॥ ११ जगत्त्रयीविभ्रमणप्रवीणो मनःप्लवङ्गो विनियन्त्रणीयः। केनापि यत्नेन विचारवद्भि रभीप्सितं शान्ति-सुखं परं चेत् ॥ . १२ सर्वागमानां परमार्थभूत मेकं तदन्तःकरणस्य शुद्धिः । कर्मक्षयप्रत्यलमेकमुक्तं ध्यानं तदन्तःपरिशुद्धिमूलम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy