________________
१८६
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
प्रयोजनं कि नु मुनिव्रतानां
क्रियेत दम्माचरणं यतस्तैः ।। दम्भावकाशो नहि सत्प्रवृत्ता
वन्यत्र पापस्य च पोषणाय ॥
एकान्ततो नानुमतिर्जिनस्य
न वा निषेधः खलु धर्मशास्त्रे। न जातु दम्माश्रयणं क्षम तद् ,
निर्मायमार्ये पथि यान्ति सन्तः ॥
अहो ! समालम्ब्य बकप्रवृत्ति
प्रवञ्चकैर्वन्च्यत एष लोकः । परन्तु सम्मोहतमोऽन्धभूता
आतन्वत वञ्चनमात्मनस्ते ॥
निःशल्यभावव्रतपालनाय
श्रीधर्मशास्त्राणि समादिशन्ति । एव हि योगैकपदीप्रवेश ___ एव हि मोक्षार्थगतेर्विकासः ॥