SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 9 विद्यामंत्रमहौषधिसेवां, सृजतु वशीकृतदेवाम्। रसतु रसायनमुपचयकरणं, तदपि न मुञ्चति मरणम् , वि० ॥५॥ व्याख्या-जो जव्या यदि कश्चिन्मरणात्स्वमोचनाय वशीकृतदेवां श्रवशा वशा यथा संपद्यमानाः कृता नवन्तीति ।। वशीकृता देवा वरुणकुवेरादयो यया सा तथा तां । विद्यामंत्रमहौषधिसेवां सृजतु विद्या रोहिणीप्रज्ञप्त्यादिः, मंत्रा हरि| नगमेषिवज्रपञ्जरादयः, महौषधयः सप्रनावा नृपशीतजविसहदेवीपुत्रंजारी विष्णुकान्तादिकास्तासां सेवाराधना तां सजतु । प्राणी करोतु । उपचयकरणं रसायनं रसतु उपचयो मरणजयार्थ बलवृधिस्तत्करणं तत्कारकं यजसायनं रसेन्जताघजस्मादि तसतु जयतु । तदपि तथाकृतेऽपि मरणं न मुञ्चतीत्यतो धर्मशरणं कार्यमित्यर्थः ॥५॥ श्रथ जरातोऽपि रक्षकं शरणं नास्तीत्याहवपुषि चिरं निरुणकि समीरं, पतति जलधिपरतीरम् ।। शिरसि गिरेरधिरोहति तरसा, तदपि स जीर्यति जरसा, वि०॥६॥ व्याख्या-यः पुमान् जराया जयतो रक्षणकृते समीर शरीरपुष्टिहेतुं मत्वा उच्चासनिःश्वासवायुस्तं चिरं प्रतिदिन प्रभूतकालं यावत् वपुपि शरीरमध्ये निरुणद्धिविष्कंजयति स्तंजयति।जसधिपरतीरं पतति। तथोजयान्महान्दालविधानाय दूरं प्रणश्य जखधेः समुनस्य परमुत्तरतटं गत्वा पतति अतिष्ठत् । तरसाऽतिशीघ्रतया नंष्ट्वा गिरेः पर्वतस्य शिरसि ।
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy