SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ आकरा भेदास्ते, यथाचिन्तितमूर्त्तयः ॥ २ ॥" इत्यादि, भगवानाह - नायमर्थः समर्थों, व्यपगतडिम्बडमर कलहबोल क्षारवैरास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्! ॥ 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु दुर्भूतानीति वा, दुर्भूतंअशिवं, कुलरोगा इति वा मण्डलरोगा इति वा शिरोवेदनेति वा अक्षिवेदनेति वा कर्णवेदनेति वा नखवेदनेति वा दन्तवेदनेति वा काश इति वा श्वास इति वा शोष इति वा ज्वर इति वा दाह इति वा कच्छूरिति वा खसर इति वा कुष्ठमिति वा अर्श इति वा अजीर्णमिति वा भगन्दर इति वा इन्द्रग्रह इति वा स्कन्धग्रह इति वा कुमारग्रह इति वा नागग्रह इति वा यक्षग्रह इति वा भूतग्रह इति वा धनुर्मह इति वा उद्वेग इति वा एकाहिका इति वा द्व्याहिका इति वा व्याहिका इति वा चतुर्थका इति वा हृदयशुलानीति वा मस्तकशूलानीति वा पार्श्वशूलानीति वा कुक्षिशूलानीति वा योनिशूलानीति वा ग्राममारिरिति वा नकरंमारिरिति वा निगममारिरिति वा यावत्सन्निवेशमारिरिति वा, यावत्करणात् खेडकर्बटादिपरिग्रहः, मारिकृतप्राणिक्षय इति वा जनक्षय इति वा धनक्षय इति वा कुलक्षय इति वा व्यसनभूतमनार्यतेति वा ?, भगवानाह - नायमर्थः समर्थों, व्यपगतरोगातङ्कास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! | 'तेसि ण' मित्यादि, तेषामुत्तरकुरुवास्तव्यानां भदन्त ! मनुष्याणां कियन्तं कालं स्थिति:- अवस्थानं प्रशप्ता ?, भगवानाह - गौतम ! जघन्येन देशोनानि त्रीणि पल्योपमानि, तत्र न ज्ञायते कियता देशेनोनानि ? तत आह-पल्योपमस्यासत्येयभागेनोनानि, उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि ॥ 'ते णं भंते' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त ! मनुजाः कालमासे 'कालं' मरणं कृत्वा क गच्छन्ति ?, एतदेव व्याचष्टे -कोत्पद्यन्ते ? इति, भगवानाह - गौतम ! ते मनुजाः षण्मासावशेषायुषः कृतपरभवायुबन्धाः स्वकाले युगलं प्रसूवते, प्रसूय एकोनपञ्चाशतं रात्रिन्दिवानि तद् युगलमनुपालयन्ति, अनुपाल्य काशित्वा क्षुत्वा जृम्भयित्वा
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy