SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ मित्रो जात: ?, भगवानाह - नायमर्थः समर्थो, व्यपगतवैरानुबन्धास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अत्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु मित्रमिति वा मित्र - स्नेहविषयः, वयस्य इति वा - समानवया गाढतरस्नेहविषयः, सखा इति वा - समानखादनपानो गाढतमस्नेहस्थानं, सुहृदिति वा, सुहृत् - मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च, साङ्गतिक इति वा, साङ्गतिक: - सङ्गतिमात्रघटितः ?, भगवानाह - नायमर्थः समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अत्थि णं भंते!" इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु 'आवाहा इति वा' आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाह :- विवाहात्पूर्वस्ताम्बूलदानोत्सवः, वीवाहा इति वा, वीवाह: -परिणयनं, यज्ञा इति वा, यज्ञा:- प्रतिदिवसं स्वखेष्टदेवतापूजा:, श्राद्धानीति वा, श्राद्धं पितृक्रिया, स्थालीपाका इति वा, स्थालीपाकः - प्रतीतः, मृतपिण्डनिवेदनानीति वा मृतेभ्यः श्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि मृतपिण्डनिवेदनानि, चूडोपनयनानीति वा, चूडोपनयनं - शिरोमुण्डनं, सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं - गर्भस्थापनं १, भगवानाह - नायमर्थः समर्थो, व्यपगतावाहवीवाह यज्ञ श्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजा: प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! || 'अत्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु नटप्रेक्षेति वा नटा-नाटकानां नाटयितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति वा, नृत्यन्ति स्म नृत्या- नृत्य विधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षा इति वा, जलप्रेक्षेति वा, जल्ला - वरत्राखेलका राजस्तोत्रपाठका इत्यपरे तेषां प्रेक्षा जलप्रेक्षा, मल्लप्रेक्षेति वा, मल्लाः- प्रतीताः, मौष्टिकप्रेक्षेति वा, मौष्टिका : मलविशेषा एव ये. मुष्टिभि: प्रहरन्ति, विडम्वकप्रेक्षेति वा, विडम्बका - विदूषका नानावेपकारिण इत्यर्थः, कथकप्रेक्षेति वा, कथकाः प्रतीताः, लवकप्रेक्षेति वा, लवका ये उत्प्लुत्य गर्त्तादिकं झम्पाभिर्लक्ष्यन्ति नद्यादिकं वा तरन्ति तेषां प्रेक्षा लवकप्रेक्षा, लासकप्रेक्षेति वा, लासका ये रास
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy