SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ श्वसन:-शुण्डादण्ड: गजस्य श्वसनो गजश्वसनस्तस्य सुजातस्य-सुनिष्पन्नस्य सन्निभी ऊरू येषां ते गजश्वसनसुजातसन्निभोरवः, सजा- ३ प्रतिपत्ती तशब्दस्य विशेषणस्यापि सतः परनिपात: प्राकृतत्वात् , 'वरवारणमत्ततुल्लविक्कमविलासियगई' अत्रापि मत्तशब्दस्य विशेष्यात्पर- उत्तरकुरुनिपात: प्राकृतत्वात् , मत्तो-मदोन्मत्तो यो वरः-प्रधानो भद्रजातीयो वारणो-हस्ती तस्य तुल्यः-सदृशो विक्रमः-पराक्रमो विलासिता 5 वर्णनं -विलासः संजातोऽस्या विलासिता तारकादिदर्शनादितप्रत्ययः विलासवती गतिः-गमनं येपां ते वरवारणमत्ततुल्यविक्रमविलासित- उद्देशः २ 2 गतयः, 'पमुइयवरतुरगसीहवरवट्टियकडी' प्रमुदितो-रोगशोकायुपद्रवाभावात्, कचित्पुनरेवं पाठः 'पमुइयवरतुरगसिंहअइरेगव-४ सू०१४७ ट्टियकडी' तत्र प्रमुदितयो-रोगशोकायुपद्रवरहितलेनातिपुष्टयोर्वरयोस्तुरगसिंहयो: कट्याः सकाशादतिशयेन वर्तिता-वृत्तिः (ता) कटिषेपां ते प्रमुदितवरतुरगसिंहातिरेकवर्तितकटयः, 'वरतुरयसुजायगुज्झदेसा' वरतुरगस्येव सुजात:-संगुप्तलेन सुनिष्पन्नो गुपदेशो येषां ते वरतुरगसुजातगुह्यदेशाः, पाठान्तरं 'पसत्थवरतुरगगुज्झदेसा' व्यक्तं, 'आइण्णहयव्य निरुवलेवा' आकीर्णो-गुणैाप्तः 5 स चासौ यश्व आकीर्णयस्तद्वन्निरुपलेपा-लेपरहितशरीरमलाः, यथा जात्याश्वो मूत्रपुरीषाद्यनुपलिप्तगात्रो भवति तथा तेऽपीति भावः, 'साहयसोणंदमुसलदप्पणनिगरियवरकणगछरुसरिसवरवइरवलियमज्झा' संहृतसौनन्दं नाम ऊर्कीकृतमुदूपलाकृति काष्ठं : P तञ्च मध्ये तनु उभयोः पार्श्वयोवृहत् , मुसलं-प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते, तथा यन्निगरितं-सारी कृतं वरकनकं तस्य-तन्मयं त्सरु:-खगादिमुष्टिर्निगरितवरकनकत्सरुस्तैः सदृशः तेपामिवेत्यर्थः, तथा वरवनस्येव क्षामो वलितो-वलयः संजाता अस्य वलित:-वलित्रयोपेतो मध्यो-मध्यभागो येषां ते संहृतसोनन्दमुसलदर्पणनिगरितवरकनकत्सरुसदृशवरवप्रवलितमध्याः ॥२७०॥ 'झसविहगसुजायपीणकुच्छी' झपो-मत्स्य: पक्षी-प्रतीतस्तयोरिव सुजातौ-सुनिष्पन्नौ जन्मदोषरहिताविति भावः पीनौ-उपचितौ
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy