SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ OLEN SESSORAIS संभृताः 'विष्यन्दन्ति' स्रवन्ति, सामर्थ्यात्तानेवानन्तरोदितान् मद्यविधीन , कचित् 'विसति' इति पाठस्तत्र विकसन्तीति व्याख्येयं, | किमुक्तं भवतितेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा तान् मद्यविधीन मुञ्चन्तीति, कुशविकुशविशुद्धवृक्षमूला:, 'मूलवन्त' इत्यादि प्राग्वद् यावत्प्रतिरूपका इति १। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो भृङ्गागका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! 'जहा से' इत्यादि, यथा ते करकघटककलशकर्करीपादकाचनिकाउदकवार्द्वानीसुप्रतिष्ठकविष्ठरपारीचषकभृङ्गारककरोटिकासरकपरकपात्रीस्थालमल्लकचपलितदकवारकविचित्रपट्टकशुक्तिचारुपीनका भाजनविधयः, एते प्रायः प्रतीताः, नवरं पादकाञ्चनिका-पाद्धावनयोग्या काञ्चनमयी पात्री उदको-येनोदकमुदच्यते वार्डानी-गलन्तिका सरको-वंशमयच्छिक्काः शिक्काकृति: अप्रतीता लोकतो विशिष्टसंप्रदायाद्वाऽवसातव्याः, कथम्भूताः? इत्याह -काश्चनमणिरत्नभक्तिचित्राः, पुनः कथम्भूताः? इत्याह-बहुप्रकाराः, एकैकस्मिन् विधाववान्तरानेकभेदभावात् , तथैव ते भृङ्गागका अपि दुमगणाः 'अणेगबहुविविहविस्ससापरिणयाए' इत्यस्य व्याख्या पूर्ववत् भाजनविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः २॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवस्तुटिताङ्गका नाम दुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन्!, 'जहा से इत्यादि, यथा ते आलिङ्गय(मुरव)मृदगपणवपटहदर्दरककरटिडिण्डिमभम्भाहोरम्भाकणिताखरमुखीमकुन्दशद्धिकापिरलीवञ्चकपरिवादिनीवंशवेणुवीणासुघोपाविपश्चीमहती. कच्छभीरिगसिका, तत्रालिङ्गय वाद्यत इति आलिङ्गयः मुरवः-वाद्यविशेपः, एष यकारान्तशब्दः, मृदगो-लघुमर्दलः, पणवो-भाण्डपटहो लघुपटहो वा पटहः-प्रतीतः, दर्दरकोऽपि तथैव, करटी-सुप्रसिद्धा, डिण्डिमः-प्रथमप्रस्तावनासचकः पणवविशेपः, भम्भा
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy