SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ . - .. - - आयामेन त्रिपञ्चाशद् योजनसहस्राणि, कथमिति चेदुच्यते-इह मेरोः पूर्वस्यामपरस्यां च दिशि भद्रगालवनस्य यदायामेन परिमाणं ३ प्रतिपत्ती यच्च मेरोर्विष्कम्भस्य तदेकत्र मीलितं गन्धमादनमाल्यवद्वक्षस्कारपर्वतमूलपृथुत्वपरिमाणरहितं यावत्प्रमाणं भवति तावदुत्तरकुरूणां उत्तरकुरुजीवायाः परिमाणम्, उक्तं च-मंदरपुब्वेणायय वावीस सहस्स भइसालवणं । दुगुणं मंदरसहियं दुसेलरहियं च कुरुजीवा वर्णनं ॥१॥" तच्च यथोक्तप्रमाणमेव, तथाहि-मेरोः पूर्वस्यामपरस्यां च दिशि प्रत्येकं भद्रशालवनस्य दैर्व्यपरिमाणं द्वाविंशतिर्योजनसह-है उद्देशः२ स्राणि, ततो द्वाविंशतिः सहस्राणि द्वाभ्यां गुण्यन्ते, जातानि चतुश्चत्वारिंशत् सहस्राणि ४४०००, मेरोश्च पृथुत्वपरिमाणं दश योज- सू० १४७ नसहस्राणि १००००, तानि पूर्वराशौ प्रक्षिप्यन्ते, जातानि चतुष्पश्चाशत्सहस्राणि ५४०००, गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येक मूले पृथुत्वं पञ्च योजनशतानि, ततः पञ्च शतानि द्वाभ्यां गुण्यन्ते, जातं योजनसहस्र, तत् पूर्वराशेरपनीयते, जातानि त्रिपञ्चाशद योजनसहस्राणि ५३०००॥'तीसे धणुपहमित्यादि, तासामुत्तरकुरूणां धनु:पृष्ठं 'दक्षिणेन' दक्षिणतः, तञ्च पष्टियोंजनसहनाणि चत्वारि योजनशतानि अष्टादशोत्तराणि द्वादश एकोनविंशतिभागा योजनस्य परिक्षेपेण, द्वयोरपि हि गन्धमादनमाल्यवद्वक्षस्कारपर्वतयोरायामपरिमाणमेकत्र मीलितमुत्तरकुरूणां धनुःपृष्ठपरिमाणं, "आयामो सेलाणं दोण्ह व मिलिओ कुरूण धणुपट्ट" इति वचनात् , गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकमायामपरिमाणं त्रिंशद् योजनसहस्राणि द्वे शते नवोत्तरे पट् च कलाः ३०२०९क०६, उभयोश्च मिलित आयामो यथोक्तपरिमाणो भवति ६०४१८ क० १२॥ 'उत्तरकुराए णं भंते!' इत्यादि, उत्तरकुरूणां भदन्त ! कुरूणां, सूत्रे एकवचनं प्राकृतखात्, कीदृश आकारभावस्वरूपस्य प्रत्यवतार:-सम्भवः प्रसप्तः ?, भग ॥२६३॥ वानाह-गौतम | बहुसमरमणीयो भूमिभाग उत्तरकुरूणां प्राप्तः, 'से जहानामए-आलिंगपुक्खरेइ वा' इत्यादि जगत्युपरि वनप
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy