SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ तीर्थ तत्करणशीलास्तीर्थकरास्तेभ्यः, स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसंबुद्धास्तेभ्यः, ३ प्रतिपत्तौ है तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्थी उचितक्रिया विजयदेवन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान* वकृता प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा पुरुषा जिनपूजा वरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको-भव्यसत्त्वलोकस्तस्य उद्देशः २ सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः तथा लोकस्य-भव्यलोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, सू०१४२ तत्र योगो-बीजाधानोद्भेदपोषणकरणं क्षेम-तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पञ्चास्तिकायालकस्य वा हितोपदेशेन सम्यक्प्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्य-देशनायोग्यस्य विशिष्टस्य प्रदीपा-देशनांशुभिर्यथाऽवस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतः प्रद्योतकत्व-विशिष्टज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसम्पत्समन्विता यदशाद् द्वादशाङ्गमारचयन्तीति तेभ्यः, तथाऽभयं-विशिष्टमासन: स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, तद् अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आसधर्मस्तत्त्वावबोधनिबन्धनं श्रद्धाखभावः, श्रद्धाविहीनस्याचक्षुष्मत इव तत्त्वदर्शनायोगात् , तहदातीति चक्षुर्दास्तेभ्यः, तथा मार्गो-विशिष्टगुणस्थानावाप्तिप्रगुणः ॥२५५॥ खरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदास्तेभ्यः, तथा शरणं-संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थान
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy