________________
'सप्तस्वरसमन्वागतं' सप्त स्वराः पड्जादयः, उक्तञ्च - "सज्जे रिमह गंधारे, मज्झिमे पंचमे सरे । वेवए चेव नेसाए, सरा सत्त वि याहिया ॥ १ ॥” ते च सप्त स्वराः पुरुषस्य स्त्रिया वा नाभीतः समुद्भवन्ति 'सत्त सरा नाभीतो' इति पूर्वमहर्षिवचनात् तथाऽभी रसैः–शृङ्गारादिभिः सम्यक् प्रकर्षेण युक्तमष्टरससप्रयुक्तं, तथा एकादश अलङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहिताः, तानि च पूर्वाणि सम्प्रति व्यवच्छिन्नानि ततः पूर्वेभ्यो लेशतो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनि तेभ्यो वेदितव्याः, 'छद्दोसविष्पमुक्कं'ति पद्भिर्दोपैर्विप्रमुक्तं पड्दोपविप्रमुक्तं, ते च पडू दोपा अमी- 'भीयं दुयमुप्पिच्छं उत्तालं कागस्सरमणुणासं च' । उक्तञ्च — “भीयं दुयमुप्पिच्छत्थमुत्तालं च कमसो मुणेयव्वं । काकस्सरमणुनासं छदोसा होंति गेयस्स ॥ १ ॥” तत्र 'भीतम्' उत्रस्तं, किमुक्तं भवति ? – यदुत्रस्तेन मनसा गीयते तद्भीतपुरुपनिबन्धनधम्र्मानुवृत्तत्वाद्भीतमुच्यते, 'द्रुतं' यत्त्वरितं गीयते, 'उप्पिच्छं' नाम आकुलम्, उक्तञ्च—“आहित्यं उप्पिच्छं च आउलं रोसभरियं च" अस्यायमर्थ:-आहित्यमुप्पिच्छं च प्रत्येकमाकुलं रोपभृतं वोच्यत इति, आकुलता च श्वासेन द्रष्टव्या तथा पूर्वसूरिभिर्व्याख्यानात् उक्तञ्च मूलटीकायाम् - "उप्पिच्छं श्वासयुक्त” मिति, तथा उत्-प्राबल्येनातितालमस्थानतालं वा उत्तालं, शुक्ष्णस्वरेण काफस्वरं, सानुनासिकमनुनासं, नासिकाविनिर्गतस्वरानुगतमिति भावः, तथा 'अट्ठगुणोववेय' मिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः- पूर्ण रिक्तमलङ्कृतं व्यक्तमविपु (धु)ष्टं मधुरं समं सललितं च, तथा चोक्तम्– “पुण्णं रत्तं च अलंकियं च वत्तं तद्देव अविपु (धु ) ढं । महुरं समं सललियं अट्ठ गुणा होंति गेयस्स ॥ १ ॥ " तत्र यत्स्वरकलाभिः पूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यद् गीयते तद्रक्तम्, अन्योऽन्यस्वरविशेषकरणेन यदलङ्कृतमेव गीयते तदलङ्कृतम्, अक्षरस्वरस्फुटकरणतो व्यक्तं, विस्वरं क्रोशतीय विपु (घुटं न विघुष्टमविपु (पु) ष्टं, मधुरखरेण गीयमानं मधुरं कोकिलारुत
३ प्रतिपत्तौ
मनुष्या० वनखण्डाधि०
उद्देशः १ सू० १२६
॥ १९४ ॥