________________
णयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुलमित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि संभवन्तीत्युपपद्यते, खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सङ्घहणिगाथा-"जोणीसंगहलेस्सादिही नाणे य जोग उवओगे । उववायठिईसमुग्धाय चयणं जाई कुलविही उ॥१॥” अस्या अक्षरगमनिका-प्रथमं योनिसङ्ग्रहद्वारं ततो लेश्याद्वारं ततो दृष्टिद्वारमित्यादि । 'भुयगाणं भंते!' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ?, इत्यादि पक्षिवत् सर्व-निरवशेषं वक्तव्यं, नवरं स्थितिच्यवनकुलकोटिषु नानात्वं, तद्यथा-स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्पतः पूर्वकोटी, च्यवनम्-उद्वर्तना, तत्र नरकगतिचिन्तायामधो यावद्वितीया पृथिवी उपरि यावत्सहस्रारः कल्पस्तावदुत्पद्यते, नव तेषां जातिकुलको-18 टियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । एवमुरःपरिसर्पाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति वक्तव्यं, कुलकोटिचिन्तायां दश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ॥ "चउप्पयाण'मित्यादि, चतुष्पदानां भदन्त ! कतिविधो योनिसद्धहः प्रज्ञप्तः?, भगवानाह-गौतम द्विविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-पोतजाः संमूच्छिमाश्च, इह येऽण्डजव्यतिरिक्ता गर्भव्युत्क्रान्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा इति [ पूर्वमपि विवक्षिताः परमत्र तु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोतजतया ] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजत्वात् (सादीनामण्डजत्वात् ) तृतीयोऽपि जरायु(अण्डज)लक्षणो योनिसङ्कहो वक्तव्यः स्यादिति, तत्र ये ते पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुपा नपुंसकाच, तत्र ये ते संमूच्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्ववत् , नवरं स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, च्यवनद्वारेऽधश्चिन्तायां यावच्चतुर्थी पृथिवी ऊध्र्व यावत्सहस्रारः, जातिकुलकोटियोनिप्रमुखशतसहस्राण्यत्रापि दश ॥'जलचराणा'मित्यादि, जल