________________
प्रतीताः, भिण्डमाल:-शस्त्रजातिविशेषः, अत्र सङ्ग्रहणिगाथा कचित्पुस्तकेषु-"मुग्गरमुसुंढिकरकयअसिसत्तिहलं गयामुसलचक्का।नारायकुंततोमरसूललउडभिडिमाला य ॥१॥” गतार्था, नवरं 'करकय'त्ति क्रकचं करपत्रमित्यर्थः, पृथक्त्वं विकुर्वन्तो मुद्गररूपाणि वा यावत्त भिण्डमालरूपाणि वा, तान्यपि सदृशानि, (समानरूपाणि) 'नोऽसहशानि'(अ) समानरूपाणि, तथा 'सङ्ख्येयानि' परिमितानिन 'असकोयानि सश्यातीतानि, विसदृशकरणेऽसङ्ख्येयकरणे वा शक्त्यभावात्, तथा 'संवद्धानि' स्वात्मनः शरीरसंलग्नानि 'नासंबद्धानि' न स्वशरीरात्पृथग्भूतानि, स्वशरीरात्पृथग्भूतकरणे शक्त्यभावात् , विकुर्वन्ति, विकुर्विवाऽन्योऽन्यस्य कायमभिन्नन्तो वेदनामुदीरयन्ति,
किंविशिष्टामित्याह-'उज्ज्वलां' दुःखरूपतया जाज्वल्यमानां सुखलेशेनाप्यकलङ्कितामिति भावः, 'विपुलां' सकलशरीरव्यापितया । विस्तीर्णा 'प्रगाढां' प्रकर्षेण मर्मप्रदेशव्यापितयाऽतीवसमवगाढां कर्कशामिव कर्कशां, किमुक्तं भवति?-यथा कर्कश: पापाणसंघर्षः शरी-Ill
रस्य खण्डानि त्रोटयति एवमामप्रदेशान् त्रोटयन्तीव या वेदनोपजायते सा कर्कशा तां, कटुकामिव कटुकां पित्तप्रकोपपरिकलितवपुषो रोहिणीं-कटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिजनिकामिति भावः, तथा 'परुषां' मनसोऽतीव रौक्ष्यजनिकां 'नि अशक्यप्रतीकारतया दुर्भदा 'चण्डो' रुद्रां रौद्राध्यवसायहेतुत्वात् 'तीव्राम्' अतिशायिनी 'दुःखां' दुःखरूपां दुर्गा दुर्लयामत एव | दुरधिसह्याम् , एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावत्पञ्चम्याम् । 'छहसत्तमीसुण'मित्यादि, षष्ठसप्तम्योः पुनः पृथिव्यो रयिकाः बहूनि महान्ति गोमयकीटप्रमाणत्वात् , 'लोहितकुन्थुरूपाणि' आरक्तकुन्थुरूपाणि वज्रमयतुण्डानि, गोमयकीटसमानानि विकुर्वन्ति, विकुर्वित्वा 'अन्योऽन्यस्य' परस्परस्य 'कार्य' शरीरं समतुरगा इवाचरन्त: समतुरङ्गायमाणाः, अश्वा इवान्योऽन्यमारुहन्त इत्यर्थः,||li 'खायमाणा खायमाणा' भक्षयन्तो भक्षयन्तोऽन्तरन्त: 'अनुप्रवेशयन्तः' अनुप्रविशन्त: 'सयपोरागकिमिया इव' शतपर्वकृमय
25SLRESS