SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ इति, यथा प्रशापनायामवगाहनासंस्थानाख्यपदे तथा वक्तव्या, सा चैवं-द्विविधा रसप्रभापृथिवीनैरयिकाणां शरीरावगाहना-भवधारणीया उत्तरवैक्रिया च, तत्र या सा भवधारणीया सा जघन्यतोऽन्लासयेयभाग उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः पट परिपूर्णान्यालानि, उत्तरवैक्रिया जघन्यतोऽङ्गलसङ्ख्येयभाग उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्तावेका वितस्तिः, शर्कराप्रभायां भवधारणीया जघन्यतोऽहुलासल्येयभाग उत्कर्षतः पञ्चदश धनूंषि द्वौ हस्तावेका गितस्तिः, उत्तरवैक्रिया जपम्यतोऽन्लसख्येयभाग उत्कर्षत एकत्रिंशद्धनूंषि एको हस्तः, वालुकाप्रभायां भवधारणीया जघन्यतोऽङ्गुलासयेयभाग उत्कर्षत एकत्रिंशद्धनूंषि एको हस्तः, उत्तरवैक्रिया जघन्यतोऽङ्गलसयेयभाग उत्कर्षतः सार्दानि द्वाषष्टिधषि, पङ्कप्रभायां भवधारणीया जघन्यतोऽङ्गलासपेयभाग उत्कर्षत: सार्दानि द्वापष्टिधनूंषि, उत्तरवैक्रिया जघन्यतोऽङ्गुलसयेयभाग उत्कर्षतः पश्चविंशं धनुःशतं, धूमप्रभायां भवधारणीया जघन्यतोऽगुलासहयेयभाग उत्कर्षतः पञ्चविंशं धनुःशतं, उत्तरवैक्रिया जघन्यतोऽङ्गलसयेयभाग उत्कर्षतोऽर्द्धतृतीयानि धनुःशतानि, तमःप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्ख्ययभागमात्रा उत्कर्षतोऽर्द्धतृतीयानि धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽॉलसङ्ख्येयभाग उत्कर्षतः पञ्चधनुःशतानि, तमस्तमःप्रभायां भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभाग उत्कर्षतः पञ्च धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽगुलसहयेयभाग, उत्कर्षतो धनु:सहस्रमिति । यदि पुनः प्रतिप्रस्तटे चिन्ता क्रियते तदैवमवगन्तव्या-तत्र जघन्या भवधारणीया सर्वत्राप्यालासयभागः, उत्तरवैक्रिया तु अङ्गुलसहयेयभागः, उक्तं च मूलटीकाकारणान्यत्र-"उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यनुलसयेयभागमात्रैवे"ति, उत्कृष्टा तु भवधारणीयाया रत्नप्रभायाः प्रथमे प्रस्तटे यो हस्ता अत ऊर्ध्व क्रमेण प्रतिप्रस्तटं सार्द्धानि षट्पञ्चाशदलानि प्रक्षिप्यन्ते, तत एवं परिमाणं भवति, द्वितीये प्रसटे धनुरेकमेको हस्तः सार्द्धानि चाष्टावकलानि, तृतीये धनुरेक
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy