SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ गच्छंति?, नेरइयदेवअसंखेज्जवासाउअवज्जेसु गच्छंति, दुगतिया दुआगतिया, परित्ता असंखेज्जा, सेत्तं इंदिया ॥ ( सू० २८ ) 'से किं त' मित्यादि, अथ के ते द्वीन्द्रियाः १, सूरिराह - द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'पुलाकिमिया जाव समुद्दलिक्खा' इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः - “पुला किमिया कुच्छिकिमिया गंडूयलगा गोलोमा नेउरा सोमंगलगा वंसीमुहा सूईमुहा गोजलोया जलोया जालायुसा संखा संखणगा घुल्ला खुल्ला वराडा सोत्तिया मोतिया कडुयावासा एगतोवत्ता दुहतोवृत्ता नंदियावत्ता संबुक्का माइवादा सिप्पिसपुडा चंदणा समुद्दलिक्खा इति” अस्य व्याख्या - 'पुलाकिमिया' नाम पायुप्रदेशोत्पन्नाः कृमयः 'कुक्षिकृमयः' कुक्षिप्रदेशोत्पन्नाः 'गण्डोयलका:' प्रतीताः 'शङ्खा: ' समुद्रोद्भवास्तेऽपि प्रतीताः 'शङ्खनका: ' त एव लघव: 'घुल्ला' घुल्लिका: 'खुल्ला:' लघवः शङ्खाः सामुद्रशङ्खाकाराः 'वराटा: ' कपर्दा : 'मातृवाहा: ' कोद्रवाकारतया ये कोद्रवा इति प्रतीताः 'सिप्पिसंपुडा' संपुटरूपाः शुक्तय: 'चन्दनका: ' अक्षाः, शेषास्तु यथासम्प्रदायं वाच्या, 'जे यावण्णे तहप्पगारा' इति | येऽपि चान्ये तथाप्रकाराः - एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सर्व्वे द्वीन्द्रिया ज्ञातव्याः, 'ते समासतों इत्यादि, वे द्वीन्द्रिया: 'समासतः' सङ्क्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा - अपर्याप्ताः पर्याप्ताश्च । शरीरद्वारेऽमीषां त्रीणि शरीराणि - औदारिकं तैजसं कार्मणं च, अवगाहना जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रा उत्कृष्टा द्वादश योजनानि, संहननद्वारे छेदवर्त्तिसंहननिनः, अत्र संहननं मुख्यमेव द्रष्टव्यम्, अस्थिनिचयभावात्, संस्थानद्वारे हुण्डसंस्थाना:, कषायद्वारे चत्वारः कषायाः सञ्ज्ञाद्वारे चतस्र आहारादिका: सन्ज्ञाः, लेश्याद्वारे आद्यास्तिस्रो लेश्याः, इन्द्रियद्वारे द्वे इन्द्रिये, तद्यथा - स्पर्शनं रसनं च समुद्घातद्वारे त्रयः समुद्घाताः, त
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy