SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः ॥ १५ ॥ वक्ष्यमाणलक्षणानि तेषामाद्यानि पञ्च संस्थानानि मसूरचन्द्रकाकारे न संभवन्ति, तलक्षणायोगात्, तत इदं मसूरचन्द्रकाकारं संस्थानं हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थितत्वरूपस्य तलक्षणस्य योगात्, जीवानां संस्थानान्तराभावाघ, आह् च मूलटीकाकारः - " संस्थानं मसूरचन्द्रकसंस्थितमपि हुण्डं, सर्वत्रासंस्थितलेन तलक्षणयोगात्, जीवानां संस्थानान्तराभावाने "ति ॥ गतं संस्थानद्वारमधुना कपायद्वारमाह- 'तेसिणं भंते !" इत्यादि तेषां भदन्त ! सूक्ष्मपृथ्वी कायिकानां कति कपायाः प्रज्ञप्ताः १, तत्र कपाया नाम कप्यन्ते - हिंस्यन्ते परस्परमस्मिन् प्राणिन इति कपः - संसारस्तमयन्ते - गच्छन्त्येभिर्जन्तव इति कषाया:- क्रोधादयः परिणामविशेषाः, तथा चाह - 'गोयमेत्यादि सुगमं, नवरं क्रोधः - अप्रीतिपरिणामः मानो - गर्वपरिणामः माया - निकृतिरूपा लोभो-गालक्षणः, एते च क्रोधादयोSमीषां मन्दपरिणाम तयाऽनुपदर्शित बाह्यशरीर विकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः ॥ गतं कपायद्वारं, सज्ञाद्वारमाह- 'ते सिण' मित्यादि सुगमं, नवरं सञ्ज्ञानं सञ्ज्ञा सा च द्विधा - ज्ञानरूपाऽनुभवरूपा च तत्र ज्ञानरूपा मतिश्रुतावधिमनःपर्यायकेवलभेदात्पञ्चप्रकारा, तत्र केवलसञ्ज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवसञ्ज्ञा स्वकृता सातावेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनमनुभवसन्ज्ञया, ज्ञानसन्ज्ञायास्तद्वारेण परिगृहीतलात्, तत्राहारसञ्ज्ञा नाम आहाराभिलापः भुवृनीयप्रभवः खल्वासपरिणामविशेषः, एषा चासातावेदनीयोदयादुपजायते, 'भयसज्ञा' भयवेदनीयोदयजनितत्रासपरिणामरूपा, 'परिमहसञ्ज्ञा' लोभविपाकोदयसमुत्थमूर्छा परिणामरूपा, 'मैथुनसज्ञा' वेदोदयजनिता मैथुनाभिलापः, एताश्चतस्रोऽपि मोहनीयोदयभवाः, एता अपि सूक्ष्मपृथ्वी कायिकानामव्यक्तरूपाः प्रतिपत्तव्याः ॥ गतं सञ्ज्ञाद्वारमधुना लेश्याद्वारमाह- 'ते सिण' मित्यादि सुगमं, नवरं लिश्यति - ते आला कर्मणा सहानयेति लेश्या - कृष्णादिद्रव्यसाचिव्यादासनः शुभाशुभपरिणामः, उक्तं च - "कृष्णादि १ प्रतिपसौ सूक्ष्मपृथ्वीकायाः सू० १३ ॥ १५ ॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy