SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे सतताभ्या SAUSIOS JOGOS SUOSSAS मत आहादमुपनयन्नपि तन्मरणादौ सन्तापहेतुरेव स्यात् । यच्चैतद् मरणदुःखं रोदनक्रियामिव्यंग्यं तदपेक्षेति अपेक्षा* निमित्तमित्यर्थः, स्वजनत्वेन ह्यपेक्षितो जनोऽबन्धुरपि म्रियमाणो दुःखमुत्पादयति, न तु बन्धुरपि परतया संकल्पितः। 3 कुतोऽप्यपराधादिति । तथा, दरिद्रविषये किंचिदुच्यते । किं भवद्भिरिह दरिद्रो विवक्षितः, अथ परलोके दरिद्रः, इह परलोकदरिद्रयोदूंरं विसदृशत्वात् ॥ ९५७ ॥ यदा तेनैवं चतुर्णामर्थानां पृष्टानामुत्तराणि विहितानि तदा लोकेन राजनिवेदनं कृतम् , यथा-अयमित्थमित्थं च भाषितः । ततो राज्ञा स्वसमीपमानाय्य तस्य दर्शनमकारि तोषो हर्षश्च वृत्तः । ततो राज्ञा प्रियवचनप्रयोगपूर्वकं 'पुच्छ पसिणत्थे' इति प्राक्प्रदर्शितप्रश्नार्थस्य पृच्छा कृता । तेन च तदर्थे निवेदिते नमनं परिणामो धर्मगोचरो जनकस्य वृत्तः । ततोऽनुज्ञा-अस्माकमनुमतं यत् त्वया निवेद्यते इत्येवंलक्षणाऽनुमतिः पितुः सम्बन्धिनी यदा लब्धा, तदा संवेगसाधनं संवेगसारेण भूत्वा कथनं भावसारमिदं कृतम् ॥९५८॥ एतदेव दर्शयति-धर्मकरणेन शुद्धसुकृतापादनेन सर्वतो भोगी सर्वतोमुखप्रवृत्ताद्धनधान्यादेाभादिहभवे परभवे च भोगवान् स्यात् । इतरथातु धर्मस्याकरणे पुनस्तुच्छभोगी, धर्मकरणमन्तरेण निरनुवन्धत्वेन भोगस्य तुच्छफलत्वात् । इतिः प्राग्वत् । तथा, राज्यफलस्तु व्याधिरिति राजस्येव फलमुपचाररूपं यस्य स तथा, तुः प्राग्वत् । सुव्याधिगंडुव्रणकुष्ठादिदारुणरोगः । य एव झुपचारोऽभिषेकपट्टवन्धवालव्यजनादौ राज्ये प्रवर्तते, स एव सुव्याधावपीति न कश्चिद् विशेषो व्याधिराज्ययोरिति कथं मतिमान् राज्याभिलाषी स्यात् ? तत्क्षणसदृशस्तु व्याधिनिर्विशेषराज्योत्सवसदृशः पुनरेतेषु प्रत्यक्षतो दृश्यमानेषु पुत्रादिषु 'य उत्सवः' इति वाक्यशेषः । यथा राज्योत्सवो न परिणामसुन्दरः "त्रय एते नरक CASAS १.
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy