SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ कृतम्, परमुत्तरणमविद्धस्यवं सम्यक् शूलायां संवृत्तमिति ॥ ८०५॥ विस्मये सर्वलोकस्य देवतया कथना कृता, यथा12] कृतमिदं चौर्यमेतेन, परं भावतः पश्चात्तापलक्षणात् क्षपितं चौर्यजन्यं कर्म । ततः संवेगाद् व्रतग्रहणं कृतम् तेन तदनु 18| चौरर्पिः सुप्रसिद्ध इति ॥ ८०६ ॥ अत्रैव दृष्टान्तान्तरमाह;द एवं विसिटकालाभावम्मिवि मग्गगामिणो जह उ।पावेंति इच्छियपुरं तह सिद्धिं संपयं जीवा ॥८०७॥ | एवं-यथा भावविशेपाचौरोऽप्यचौरः संवृत्तस्तथा, विशिष्टकालाभावेऽपि निर्वाणलाभयोग्यसमयविरहेऽपि मार्गगा| मिनः सत्पथप्रवृत्ता यथा तु यथैव प्राप्नुवन्तीप्सितपुरं पाटलिपुत्रकादि तथा सिद्धिं निर्वृतिलक्षणां साम्प्रतं दुष्पमायां | सन्मार्गप्रवृत्ताः सन्तो जीवा भावविशेषाद् अवाप्नुवन्ति, परं कालविलम्वेनेति ॥ ८०७॥ ननु निष्ठुरक्रियासाभ्यो मोक्षः, कथं साम्प्रतकालयोग्या मृद्वी क्रिया तद्धेतुः स्यादित्याशंक्याह;मउईएवि किरियाए कालेणारोगयं जह उविति । तह चेव उणिवाणं जीवा सिद्धंतकिरियाए ॥८०८॥ मृद्व्यापि साधारणयापि क्रियया घातचिकित्साक्रियया कालेन चिरतररूपेणारोगतां नीरोगभावं यथोपयान्ति प्रतिप-2 धन्ते, तथा चैव तु तेनैव प्रकारेण निर्वाणमपवर्ग जीवाः सिद्धान्तक्रियया मूलगुणोत्तरगुणप्रतिपालनरूपया साधारणरूपयापीति ॥ ८०८ ॥ आह-निष्ठुरक्रियापरिपालनरूपं चारित्रं, न चासावध दुष्पमायां सम्पद्यते, तत्कथं निर्वाणमार्गरूपं चारित्रं भवद्भिः प्रतिज्ञायत इत्याशंक्याह;--
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy