SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ RECA RRIERGREERS एसा य असइदोसासेवणओ धम्मवज्झचित्ताणं । ता धम्मे जइयवं सम्मं सइ धीरपुरिसेहिं ॥१८॥ 2 एपा चेयं पुनर्दोघीयसी स्थितिः असकृदनेकवारान् अनेकेषु भवेष्वित्यर्थः दोषासेवनतः दोषाणां राहुमण्डलवत् शशधरकरनिकरवातस्पर्द्धिस्वभावस्य जीवस्य मालिन्याधायकतया दूपकाणां निविडवेदोदयाज्ञानभयमोहादीनां यदासेवन मनोवाकायैः कृतकारितानुमतिसहायैराचरणं तस्मात् । केषामित्याह-धर्मवाह्यचित्तानां श्रुतधर्माच्चारित्रधर्माच्च सथा बाह्यचित्तानां स्वप्नायमानावस्थायामपि तत्रानवतीर्णमानसानामित्यर्थः । यत एवं, 'ता' इति तस्माद्धर्मे उक्तलक्षणे | एव एकान्तेनैवैकेन्द्रियादिजातिप्रवेशनिवारणकारिणि भवोद्भवभूरिदुःखज्वलनविध्यापनवारिणि यतितव्यं सर्वप्रमाद। स्थानपरिहारेणोद्यमः कार्यः सम्यग् मार्गानुसारिण्या प्रवृत्त्या स्वसामर्थ्यालोचनसारं सदा सर्वास्ववस्थासु धीरपुरुषैद्धिमद्भिः पुम्भिः ॥ १८॥ | सम्यग् धर्मे यतितव्यमित्युक्तमथ सम्यग्भावमेव भावयन्नाह; सम्मत्तं पुण इत्थं सुत्तणुसारेण जा पवित्ती उ। सुत्तगहणम्मि तम्हा पवत्तियत्वं इहं पढमं ॥ १९॥ ___ सम्यक्त्वमवितथरूपता पुनरत्र धर्मप्रयत्ने का इत्याह-सूत्रानुसारेण या प्रवृत्तिः, तुशब्दोऽवधारणार्थो भिन्नक्रमश्चेति, ततः सूत्रानुसारेणैव सर्वज्ञागमानुसरणेनैव या चैत्यवन्दनादिरूपा प्रवृत्तिश्चेष्टा सम्यक्त्वम् । एवं सति यद् विधेयं तदाह 8 |-सूत्रस्य परमपुरुपार्थानुकूलभावकलापसूचकस्याऽसारसंसारचारकावासनिर्वासनकालघण्टाकल्पस्याऽऽवश्यकप्रविष्टादिभे-Tal
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy