SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥ ३१० ॥ *36 एवंविहो उ भावो गुणठाणे हंदि चरणरुवम्मि । होति विसिट्ठखउवसमजोगओ भवसत्ताणं ॥६६३॥ एवंविधस्त्वेवंविध एव व्यसनप्राप्तावपि गुप्तिसमित्यनुल्लंघनरूपो भावः परिणामो भवतीत्युत्तरेण योगः । क्व सतीत्याहगुणस्थाने, हंदीति पूर्ववत्, चरणरूपे चारित्रलक्षणे भवति विशिष्टक्षयोपशमयोगतो विशिष्टो वज्राश्मवदत्यन्त निविडो यश्चारित्रमोहस्य क्षयोपशमः क्षयविशेषस्तद्योगात्, भव्यसत्त्वानां समासन्नीभूतनिर्वृतिगमनानाम् । ये हि निवृत्तचारित्रमोहात्मानो महासत्त्वा मुनयः स्युस्त एव प्राणप्रहाणेऽपि न समितिगुप्तिभङ्गभाजो भवन्तीति ॥ ६६३ ॥ कुत एतदिति चेदुच्यतेःदेहा सामत्थमिव आसयसुद्धी ण ओघओ अन्ना । चरणम्मि सुपुरिसो ण हि तुच्छोवि अकज्जमायरति देहासामर्थ्येऽपि दुष्कालरोगवार्द्धकादिकारणैर्देहस्य विहितकृत्येष्वसमर्थतायामपि, किं पुनरितरत्रेत्यपिशब्दार्थः, आशयशुद्धिः परिणामनैर्मल्यरूपा न नैवौघतः सामान्येनान्या हीयमाना विपरीतरूपा वा सम्पद्यते । क्व सतीत्याह-चरणे सर्वसावद्यपरिहारलक्षणे । यच्चौघत इत्युक्तं, तत् तथाविधोत्कर्षवशाद् मेघकुमारादीनामिव मनाग् मालिन्यमपि कदाचित् संभाव्यत इति व्यभिचारपरिहारार्थम् । एतदेव समर्थमान आह— सुपुरुषः शान्तदान्तस्वभावः, स च विशेषतः "अस 'त्सङ्गाद् दैन्यात् प्रखलचरितैर्वा बहुविधैरसद्भूतै भूतैर्यदि भवति भूतेरभवनिः। सहिष्णोः सद्बुद्धेः परहितरतस्योन्नतमतेः परा 'भूषा पुंसः स्वविधिविहितं वल्कलमपि ॥ १ ॥ इत्यध्यवसायप्रधानः पुरुषविशेषः, न नैव हिर्यस्मात् तुच्छोऽपि शरीरविभवसहायादिवलविकलतया कृशीभूतोऽपि किं पुनरितरः, अकार्य कुलकलंकादिकारणं कृत्यविशेषमैहिकं पारत्रिकं च समितिगुतिस्वरूपो पसंहर णम् ॥ ३१० ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy