SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ cchucchecCKETACEACTAK मदीयायाम् । आरूदस्ततः सः । प्रहारं च मूत्रपुरीपलक्षणं पुनः परमाशुचिमत्यन्तमशुचिरूपम् , अत एव दुर्गन्धं मृतकुवितशृगालमाारादिकडेवरादपि विरुद्धगन्धं मुञ्चति पृष्टिक्लेशकरमत्यन्तासाधारणस्पर्शत्वेन पृष्ठप्रदेशापकारि ॥ ६३४॥5 ॥ २७ ॥ यीति गिरं धिर मुण्डिन् ! त्वं, वेगविघातो मूत्रपुरीपप्रवृत्तिनिरोधः कृतस्त्वया, इत्यस्माद् दुःखापितो दुःखवान् कृतोऽहमित्येवं नानारूपमाकोशति पदे पदे । सोऽपि भगवान् यत्कुरुते तदाह ॥ ६३५ ॥ २८ ॥ न गणयति न मन्यते तां परुषगिरं, न च गर्हतेऽपि तं परुपवचनवक्तारं दुरभिगन्धं विलीनगन्धमपि सन्तम् । तर्हि किं कुरुते इत्याह -चन्दनमिव मन्यमानस्तत्पुरीपादि, मिथ्या मे दुष्कृतं यदत्र प्रमादादनुचितमाचरितमिति भणति ॥ ६३६ ॥२९॥ तथा चिन्तयति मीमांसते-किं करोमि अन्नपानदानादिरूपं कृत्यं, कथं तु केन नाम प्रकारेण समाधिर्भवेदस्य साधोः । इत्येवं बहुविधप्रकारं भोजनभङ्गएपणाविघातनिराक्रोशादिप्रकारवद्, यथा भवति । नापि नैव तीर्णः शकितो यदा |क्षोभयितुम् ॥ ६३७ ॥ ३०॥ तदाऽभिष्टत्य-अहो! सुलब्धं ते जन्म, सफलं जीवितव्यमित्यादिभिर्वचनैस्तं प्रशंस्य गत मको देवः । आगतश्चेतरः स्त्रोपाश्रयम् । आलोचिते यथावस्थितस्वरूपे निवेदिते सति गुरुभिर्धन्य इति भणित्वा, ६ तवेति समुचये, ममनुशिष्टः स प्रशंसित इति ॥ ६३८ ॥ ३१॥ अथ प्रस्तुतयोजनामाह; यथा तेन नन्दिपेणसाधुना एपणा पानकशुद्धिरूपा नो नैव भिन्ना विनाशिता इत्येवमेपणायां यतितव्यं सर्वेण सदा साधुना अदीनभावतोऽक्षीणपरिणामात् सूत्रयोगेन सूत्रानुसारेणेत्यर्थः॥ ६३९॥ ३२॥ नतोऽमी नन्दिपेणाख्यः साधुः साधितसाधिमा । अखण्डाभिग्रहो मृत्यौ कालेन समुपस्थिते ॥ १॥ चकारानशनं S
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy