SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ शपदे औषधहटान्तेन समाधानादि. श्रीउपदे- 8 भण्यते उत्तरमत्र यथौषधं त्रिफलादिः, खलुरवधारणे, यत्नेनादरेण सदा सर्वावस्थासु विधानतः तदुचितान्नपानादिसेवनरूपादू युक्तं हीनाधिकमात्रापरिहारेण समुचितं, तथेति विशेषणसमुच्चये, ततो यलेन सदा विधानतो युक्तं च समुपजीव्यमानं सद् रोगिणां व्यवच्छिनत्ति व्याधि कण्डूप्रभृतिकम् , न नैवान्यथोक्तक्रमव्यतिक्रमे । एवमौषधवद् ॥२२५॥ एषोऽपि शुद्धाज्ञायोगोऽशुभानुवन्धव्याधिमिति ॥ ३८९॥" एत्तो उ अप्पमाओभणिओ सव्वत्थ भयवया एवं। इहराण सम्मजोगो तस्साहय सोविलूहोत्ति॥३९०॥ र इतः शुद्धाज्ञायोगस्यौषधज्ञातेनाशुभानुवन्धव्यवच्छेदकत्वादेव हेतोरप्रमाद उपयुक्तभावरूपो भणितः सर्वत्र साधुश्रावकप्रयोगे चैत्यवन्दनादावनुष्ठाने भगवता तीर्थकृता एवमशुभानुबन्धव्यवच्छेदकत्वेन । इतरथाऽशुभानुबन्धव्यवच्छेदाभावे न नैव सम्यग् योगः शुद्धाज्ञालाभलक्षणोऽप्रमाद एव न भवतीति भावः । नहि कारणं स्वकार्यमनुत्पादयत् सत् कारणभावं लभते, इत्यशुभानुबन्धेऽव्यवच्छिद्यमाने तत्साधकत्वेन शुद्धाज्ञानलक्षणोऽप्रमादो निरूप्यमाणः स्वं स्वभावं न लब्धुमलम् । एवं तर्हि बहवः शुद्धाज्ञायोगवन्तोऽशुभानुवन्धाव्यवच्छेदेऽपि व्यावय॑माना उपलभ्यन्ते, तत्कथं न दोष ? इत्याह-तस्साहय'त्ति विभक्तिलोपात् तत्साधकः पारंपर्येणाशुभानुवन्धव्यवच्छेदहेतुशुद्धाज्ञायोगसाधकः सन् सोऽप्यानन्तर्येणाशुभानुवन्धाव्यवच्छेदहेतुराज्ञायोगो लब्धोऽभिमत इति । यदा हि अद्याप्यतिनिबिडोऽशुभानुबन्धोऽतीव्रश्चा- ज्ञायोगः, तदाऽसौ तं सर्वथा व्यवच्छेद्यमपारयन्नपि सर्वथा तदुच्छेदकतीव्राज्ञायोगकारणभावापन्नतया सुन्दर एवेति ॥३९० अत्र हेतुमाह; ॥२२५॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy