SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- शपदे वक्तव्यं किञ्चित् लोकनेन समीकुर्वन्तु! इत्याशास्य, प्रतिस्थान प्रतिक्षणं मत्प्रमादादिदोपमार्जनदत्तोपयोगिनां मादृशाय क्षुद्रजन्तवे सम्यग्दर्शनादिरत्नत्रयी दायकानां-गजारोहकारकानां ममाधारकत्वभाजां पूज्याचार्यवर्यसद्गुरूणां मात्रं संस्मर्योपकारितामभिवादयेऽहम् । ____तथा नैसर्गिककुलजविनयवैय्यावृत्यादिसद्गुणभाप्रकर्षप्रज्ञस्वीकृतलघुवयःप्रव्रज्याव्याकरण-साहित्य-सिद्धान्तावगाहकमुनिश्रीधर्मविजयस्य, प्रतिज्ञापालनधीरमुनिश्रीभरतविजयस्य च साहाय्यकत्वमपि लब्धावसरमनुमोदनाईम् ।। सिद्धान्तश्रवणोत्सुकपरमात्मप्रणीतमार्गानुगामि गुरुवचनायत्तीभूत 'वकील' नन्दलाल तनुजनुपो विनयविवेकमार्दवादिगुणयुतस्य मालाफार्याधिकारिणः श्रीलालचन्दस्य स्वीयं-'बी-ए-इति कक्षाभ्यासव्यापृतत्वमप्येतत्कर्मणि सदा निस्पृहतया ज्ञानभक्त्यर्थं क्रियमाणप्रयासकत्वाद्धन्यवादाईत्वमेवं मुद्रणकृतार्थिकसाहाय्यकानाच न विस्मरेयम् । पर्याप्तमतिप्रसङ्गेन । एतद्न्थोद्गतभावार्थजगतीतलमनन्तसमयममिव्यामोतु । बोधिलाभशुद्धिभाजो भूत्वा समनुभवन्तु भव्या भाविभाव्या अचलं मोक्षसुखम् । श्रीस्तम्मतीर्थम्. वीर० २४५१॥ वि० १९८१ श्रावण कृष्णाष्टमी इत्यावेदयति आराध्यपाद-विद्वदवतंस-व्याख्यानकोविदाचार्य श्रीमद्विजयमोहनसूरीश्वर-प्रतापः ॥१०॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy