________________
श्रीउपदे- निर्दिष्ट प्रथमसाधोरिव । तदवाधया त्वाज्ञाया अवाधया पुनर्गृह्यमाणं स्फुट निर्व्याजमेव तदपि च आधाकर्मादि दोष- आज्ञायां शपदे | दुष्टं भक्तादि शुद्धं द्वितीयसाधोरिव । इत्येषा आज्ञा जैनी वर्तते । लौकिका अपि पठन्ति "भावशुद्धिर्मनुष्यस्य विज्ञेया 4 धर्म इति कार्यसाधनी । अन्यथाऽऽलिङ्गयते कान्ता दुहिता पुनरन्यथा ॥१॥" ॥ १८६॥
सप्रपञ्च॥१५॥
___ आह-“यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पडून नासौ पापेन लिप्यते ॥१॥” इत्यादिव-5 निरू०
चनप्रामाण्याद् भावशुद्धिरेव गवेषणीया, किमाज्ञायोगेनेत्याशङ्कयाह- तन्निरवेक्खो नियमा परिणामोवि हु असुद्दओ चेव।तित्थगरेऽबहुमाणासग्गहरूवो मुणेयवो ॥१८७॥
तन्निरपेक्ष आज्ञावाह्यः स्वेच्छामात्रप्रवृत्तो नियमाद् निश्चयेन 'परिणामोवि हुत्ति प्रस्तावात् शुभोऽपि परिणामोऽन्तःकरणपरिणतिरूपोऽशुद्ध एव मलिन एव । कुतः, यतः स तीर्थङ्करे भगवति सर्वजगज्जीववत्सले विषयभूतेऽबहुमानाद् बहुः प्रभूतः स्वात्मापेक्षया मानो मननं बहुमानस्तत्प्रतिषेधादबहुमानस्तस्माद्धेतुभूतात् सकाशाद् असद्ग्रहरूपोऽसुन्दराग्रहरूपो मुणितव्यो ज्ञेयः। यद्वक्ष्यति,-"सुद्धंछाइसु जत्तो गुरुकुलचागाइणेह विन्नेओ। पिच्छत्थं सवरसरक्खवहणपायच्छिवणतुल्लो ॥१॥ इत्यादि । नहि यो यद्वचननिरपेक्षः प्रवर्तते स तत्र बहुमानवान् भवति, यथा कपिलादिः सुगतशिवादी देवताविशेषे, जिनवचननिरपेक्षश्च गुरुकुलवासादिपरित्यागेन शुद्धपिण्डैषणादिकारी साधुः, तस्माद् न भगवति बहुमानवानिति ॥ १८७ ॥
६ ॥१५॥ अथास्य शुभलेश्यत्वमपि दृष्टान्तोपन्यासेन तिरस्कुर्वन्नाहा
KAASRACTICESSARIGANGANA