SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ • म. २४ अथ बुद्धिवक्तव्यतामुपसंहरन्ने तज्ज्ञानश्रवणफलमाह; कयमेत्थ पसंगेणं एमादि सुणंतगाण पाएणं । भव्वाण णिउणबुद्धी जायति सव्वत्थ फलसारा ॥ १६९ ॥ कृतं पर्याप्तमत्र ज्ञातनिर्देशे प्रसङ्गेनातिप्रपञ्चभणनलक्षणेन, अनाद्यनन्तकाले भूतभवद्भविष्यतां प्रस्तुतबुद्धिज्ञातानामानन्त्येन ज्ञातुं वक्तुं वा अशक्यत्वात् । प्रतिबुद्धेरेकैकज्ञातभणनेऽपि प्रस्तुतबोधसम्भवात् किं ज्ञातभूयस्त्वमित्याशकाह; - ' एमाइ'त्ति एवमादि निर्दिष्टज्ञातमुख्यं वुद्धिज्ञातजातमन्यदपि शृण्वतां सम्यग् आकर्णयतां सतां प्रायेण वाहु| त्येन भव्यानां रक्तद्विष्टत्वादिदोषवर्जितत्वेन श्रवणयोग्यानां जीवानाम् । किमित्याह - निपुणवुद्धिर्जिज्ञासितवस्तुगर्भग्राहकत्वेन निपुणा सूक्ष्मा मतिर्जायते समुल्लसति सर्वत्र धर्मार्थादौ फलसाराऽवश्यम्भाविसमीहितफललाभसुन्दरा । प्रायो| ग्रहणं निकाचितज्ञानावरणादिकर्मणां मापतुपादीनामेतच्छ्रवणेऽपि तथाविधबुद्ध्युद्भवाभावेन मा भूद् व्यभिचार इति । परमेतज्जिज्ञासापि महाफलैब, यथोक्तं, "जिज्ञासायामपि ह्यत्र किंचित् कर्म निवर्त्तते । नाक्षीणपाप एकान्तात् प्राप्नोति कुशठां धियम् ॥ १ ॥” ॥ १६१ ॥ उपायान्तरमपि बुद्धिवृद्धाववन्ध्यं समस्तीति ज्ञापयन्नाह ;-- भत्तीए बुद्धिमंताण तहय बहुमाणओ य एएसिं । अपओसयसंसाओ एयाण वि कारणं जाण ॥ १६२ ॥ भक्त्या उचितान्नपानादिसम्पादनपादधावन ग्लानावस्थाप्रतिजागरणादिरूपया बुद्धिमतां प्रस्तुतबुद्धिधनानां, तथा
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy