________________
PRAK
कस्य 'निद्धसधिजाइत्ति निद्धसाभिधानस्य धिग्जातीयस्य संबन्धिनी । तथा 'लोगजाणम्मि'त्ति लोकाभिप्रायपरिजाने जातं वर्तते । कासावित्याह-'उज्जेणि देवदत्ता' इति उज्जयिन्यां नगयों देवदत्ता वेश्या, यतस्तया 'जोगवयारेत्यपडि
वत्ती' इति योग्योपचारे सर्वप्रकृतीनामुचितप्रियकरणलक्षणे कृते सति अर्थप्रतिपत्तिर्भूयान् अर्थसंग्रहः कृत इति ॥१४३॥|8| है चलणाहणे त्ति तरुणेतरेसु पुच्छाहु तरुण तच्छेदो।इयरे ऊसरिऊणं आलोच्चिय विंति पूजंति ॥१४४॥ | चरणाघात इति द्वारपरामर्शः । तत्र कश्चिद् राजा तरुणैर्युद्ग्राह्यते । यथा देव! अमी वृद्धा मन्त्रिणो जर्जरशरी
रत्वेन दुर्वलबुद्धयः स्वपदाद् उत्तार्यन्ताम् । तरुणाः समर्थबुद्धयस्तत्पदे आरोप्यन्तामिति । ततस्तत्परीक्षणार्थ 'तरुणे14 यरेसु पुच्छा' इति, यदि कश्चिद् मां चरणेन शिरसि आहन्यात् , ततस्तस्य चरणस्य को दण्ड इति तरुणेषु इतरेषु च
मिलितेषु पृच्छा कृता । ततस्तरलमतित्वेन 'आहु तरुण'त्ति तरुणा आहुब्रुवते । तच्छेदश्चरणोत्तारो दण्ड इति । इतरे । 18 वृद्धाः पुनरुत्सृत्य उत्सारं कृत्वा तत आलोच्य परस्परं पर्यालोच्य ब्रुवते । पूजा समभ्यर्चनं कार्यमिति । नहि प्रौढप्रणय
पात्रं कलत्रं लग्नरतिकाले कलहं विहाय अन्यो युष्मान् शिरसि हन्तुं पारयतीति ॥ १४४॥ आमंडेत्ति परिच्छा काले कित्तिमग आमलेणंति। परिणयजोगालोयण लक्खणविरहेण तण्णाणं॥१४५॥ _ 'आमंडे' इति द्वारपरामर्शः । तत्र किल केनचित् कुशलमतिना कचिद् राजसभादौ आमण्डं कृत्रिममामलकमुपस्था|पितम् । स च अकाल आमलकानामिति सवितर्कचित्तः सभालोकः संजातः । अहो! कथमिदमामलकं संवृत्तमिति ।
SGAase