SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे 'गज'द्वा. 15णिकैः प्रत्येकं त्रीण्यपि तान्यतीतदिवसाहाराभ्यवहारं पृष्टानि। 'सकुलि'त्ति ततो ब्राह्मणेन तद्भार्यया च सत्कुलिकालक्षण शपदे एक एवाहारः कथितः, 'तदनु सन्नावोसिरण णाणं तु' इति विरेचकप्रदाने कृते तेषां द्वितयस्यैकाकारसंज्ञाव्युत्सर्गोपल म्भाज्ज्ञानं पुनरजायत कारणिकानां यदुतास्यैव ब्राह्मणस्येयं भार्या, नास्य धूर्तस्येति ॥८६॥ ॥६२॥ ___ अथ गज इति द्वारम्६ गयतुलणा मंतिपरिक्खणत्थ नावाइ उदगरेहाओ । पाहाणभरणतुलणा एवं संखापरिणाणं ॥८७॥ गजस्य कुञ्जरस्य तुलना प्रारब्धा मन्त्रिपरीक्षणार्थम् । अयमभिप्रायः-क्वापि नगरे मन्त्रिपदप्रायोग्यविशदबुद्ध्युपेतपुरुषोपलक्षणार्थ राज्ञा पटहप्रदानपुरस्सरमेवमुद्घोषणा कारिता, यथा-यो मदीयमतंगजं तुलयति तस्याहं शतसहस्रं दीनाराणां प्रयच्छामीति । 'नावाए उदगरेहाओ' इति । ततः केनापि निपुणधिषणेन नावि द्रोण्यां गजं प्रक्षिप्यागाधे उदके नीतासौ नौर्यावच्चासौ गजभाराकान्ता सती बुडिता तावति भागे रेखा दत्ता। ततो गजमुत्तार्य 'पाहाणभरण'त्ति पाषाणानां भृतासौ तावद्यावत्तां रेखां यावज्जलमध्ये निमग्ना । ततस्ते पाषाणास्तुलिताः। एवं संख्याया गजगोचरभारपलादिप्रमाणलक्षणायाः परिज्ञानमभूत्तस्य यावती संख्या पाषाणप्रतिवद्धभारादीनां तावत्येव गजस्यापीति ज्ञातं तेनेति भावः । ततः परितुष्टमानसेन धराधिराजेन मन्त्रिपदमस्सै वितीर्णमिति ॥८७॥ घयणोऽणामयदेवी रायाह ण एव गंधपारिच्छा। णाते हसणा पुच्छण कह रोसे धाडुवाह ठिती॥८॥ SHOCESSORREARS* SHOSHIRISHABHIRUCHIGRISAUR ॥ ५ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy