SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे शपदे 'सरट 'काक' द्वा० दर्शनेऽपगमो विनाशः संपन्नो व्याधेरिति । अत्रैव मतान्तरमाह । अन्ये आचार्या एवं ब्रुवन्ति–तव्वन्निगचेल्लणाण पु|च्छाए' इति तृतीयवर्णिकः शाक्यभिक्षुः क्षुल्लकश्च लघुश्वेताम्बरबती, तयोः परस्परं पृच्छायां प्रवृत्तायां सत्यां क्षुल्लकेन पुरुषादि इति किमयं पुरुषः उत स्त्रीत्युत्तरं दत्तम् । अयमत्र भावः-क्वचित् प्रदेशे केनापि शाक्यभिक्षुणा सरटो नानाविकारैः शिरचालयन्नुपलब्धः । तदनु कथंचित् तत्पदेशे समागतः क्षुल्लकः । तेन सोपहासमेवं पृष्टः-"भो भोः क्षुल्लक, सर्वज्ञपुत्रकस्त्वं, तत्कथय किं निमित्तमेष सरटः शिरो धूनयत्येवं ?" तदनु तत्क्षणोत्पत्तिकीबुद्धिसहायः क्षुल्लकस्तस्यैवमुतरं दत्तवान् , यथा-"भो भोः शाक्यवतिन्नाकर्णय-अयं सरदो भवन्तमालोक्य चिन्ताक्रान्तमानसः सर्वमधश्च हू निभालयति, किं भवान् भिक्षुरुपरि कूर्चदर्शनात् , उत भिक्षुकी लम्बशाटकदर्शनादिति ॥८४॥ कागे संखे वंचिय विण्णायड सट्ठि ऊण पवासाई।अण्णे घरिणिपरिच्छा णिहिफुद्दे रायणुण्णाओ॥८५॥5 | 'काक' इति द्वारपरामर्शः 'संखे वंचिय'त्ति संख्याप्रमाणं एवमेव प्राच्यकज्ञाते इव रक्तपटेन क्षुल्लकः पृष्टः, यथा-विनाय डसवित्ति' विन्नातटे नगरे कियन्तः काका वर्तन्ते ततः क्षुल्लकेनोक्तम्-अहो भिक्षो षष्टिः काकसहस्राणि अत्र नगरे वतन्ते। | भिक्षुः-ननु यद्यूना अधिका वा काका भविष्यन्ति तदा का वार्तेति ? क्षुल्लकः-ऊणपवासाई' इति ऊना उपलक्षणत्वाद् अभ्यधिका वा यदि भवतो गणयतः काकाः संपद्यन्ते तदा प्रोषितादयः प्रोषिता देशान्तरं गताः, आदिशब्दादन्यतो वा देशान्तरात् प्राघुर्णकाः आगताः इदमुकं भवति-यदि ऊनाः संजायन्ते तदान्यत्र गता इति ज्ञेयम् , अथा 9 भ्यधिकास्तहि प्राधुर्णकाः समायाता इति । तदनु निरुत्तरी बभूव शाक्यशिष्यः। अत्रैव मतान्तरमाहा-अन्ये आचार्या ॥६१॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy