________________
श्रीउपदे
शपदे
राज्ञःपञ्चपितृताबीजप्र०
पालयसि, तथा दानरोपदण्डैर्दानेन कृपणादिजनस्वविभववितरणरूपेण कुवेरधनत्यागानुकारिणा, रोषेण क्वचिदविनयवतिनि जने चण्डालचाण्डिक्यकल्पेनासहिष्णुतालक्षणेन, दण्डेन पूर्वराजनिरूपितनीतिपथप्रमाथिनो जनस्य सर्वस्वापहाररूपेण वस्त्रशोधकविधीयमानवस्त्रक्षालनतुल्येन, 'कम्बिच्छिवणा य'त्ति कम्बिकाच्छोपनाच्च कम्बिकया लीलायष्ट्या पुनः पुनर्मम विघटनाच्च, तथाशब्द उक्तसमुच्चये, राजादीनां सुतोऽसि त्वं हे राजनिति । नयेनैवंविधप्राज्यराज्यपरिपालनाज्ज्ञायसे यथा राजपुत्रस्त्वम्, न हि अराजजाता एवंविधानवद्यराज्यभारधुराधरणधौरेया भवितुमर्हन्ति । एवं दानेन द धनदजातः, रोषेण चण्डालपुत्रः, दण्डेन वस्त्रशोधकप्रसूतः, कम्बिकाघातेन च वृश्चिकापत्यम् , कारणस्वरूपानुकारिM त्वात् सर्वकार्याणाम् ।। ७४ ॥
साहुपरिग्गह संधण कोवो अण्णेणऽसज्झ पेसणया।धम्मोवायणसाहण वुग्गह णिवकियगकोवो उ७५ है 8 ततस्तदीयबुद्धिकौशलावर्जितेन नृपतिना 'साहुपरिग्गह'त्ति साधुः शोभनोऽयमिति मत्वा परिग्रहः स्वीकारः कृतस्तस्य।
तमिश्च समये केनचिदनन्तरभूमिवासिना भूपालेन सह कुतोऽपि निमित्ताद्वैरं लग्नमासीन्नृपस्य । तत्रच 'संधण'त्ति संधानं र कर्तुमभिलषितं राज्ञा । न चासौ तत् प्रतिपद्यत इति तं प्रति 'कोवो'त्ति कोपः समजनि जितशत्रोः। ततः 'अण्णेणसज्झ
पेसणया' इति अन्येन रोहकव्यतिरिक्तेनासावसाध्यः साधयितुमशक्य इति कृत्वा रोहकस्य तत्र प्रेषणं कृतं भूभुजा। प्राप्तश्च तत्र रोहकः । पृष्टश्च स प्रत्यर्थी नृपः । समये च 'धम्मो वायणसाहण'त्ति यदासौ तैस्तैरुपायैरुच्यमानोऽपि अविश्वासान्न संधानमनुमन्यते तदा धर्म एवोपायनं ढौकनीयं तेन साधनं स्ववशीभावकरणं रोहकेण तस्य कृतम् । अयमत्र