SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ } श्रीउपदेशपदे 1148 11 শশ चित् कदाचित् किंचिदतुल्यभावेऽपि न विरोध इति ख्यापनार्थम् । इयं च गाथा प्रथमार्द्ध पंचमात्रसप्तमांशा एव "वहुला विचित्रा" इति वचनान्न दुष्यति, बहुलेति पंचमात्रगणयुक्ता इति ॥ ७० ॥ ११ ॥ एवं पुणोवि पुच्छा खाडहिलाकिण्हसुक्करेहाण | का बहुगा का तुल्ला ? पुच्छसरीराणमन्ने उ ॥ ७१ ॥ एवं पुनरपि तृतीयप्रहरान्ते पृच्छा पूर्ववत् । रोहकः - खाडहिलायाः खिल्लहडिकेति लोकप्रसिद्धनामकस्य भुजपरिसजीवविशेषस्य शरीरे कृष्णरेखाणां शुक्लरेखाणां च मध्ये का अधिका बहुव्यः । राजा, का इति कास्तत्र बहुका इत्यभिधेहि त्वमेव । रोहकः —- तुल्याः समानसंख्याः कृष्णाः शुक्लाश्च रेखाः । अत्रैव मतान्तरमाह, - 'पुच्छसरीराणमन्ने उ' इति, अन्ये पुनराचार्याः पुच्छशरीरयोः खाडहिलाया एव संबन्धिनोः कतरद्दीर्घमिति चिन्तितं रोहण । राज्ञा पृष्टेन च तेनैव द्वे अपि समे इति प्रतिपादितमित्याहुः ॥ ७१ ॥ १२ ॥ चरमा कइ पिया ते के पण के रायधणयचंडाला । सोहगविच्चुग जणणी पुच्छा एवंति कहणा य७२ 'चरिमाइ' इत्यादि चरमायां यामिन्यां पश्चिमप्रहरपर्यन्तभागरूपायां पूर्वरात्रिबहुजागरणाल्लब्धातिस्वादुनिद्रो रोहकः कविका स्पर्शनातिरेकवशेन प्रतिबोधितः सन्नवदत्, यथा- 'कइ पिया ते' इति कति कियन्त पितरो जनकास्तव हे रा जन् ! वर्त्तन्त इति चिन्तयामि । राजा के इति कति मे जनका इति निवेदयितुमर्हसि त्वमेव । रोहक : - ' पण 'त्ति पञ्च । राजा के इति किंरूपाः । रोहकः :- राजघनद चण्डालाः 'सोहगविच्चुग'त्ति शोधको वस्त्रप्रक्षालको वृश्चिकश्चेति । खाड० रेखा ० राजपितृसंख्याच ॥ ५४ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy