________________
30
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः तदिह संहतासंहत * स्वलक्षणभेदमात्रं तु स्यात् . तत्र संघात
आनन्ददायिनी
केचित्तु
णाणाम्म अप्पऊणिअ आआरं वत्तु अप्पाणं । णिब्भाइ सोसरूवं धम्मो वा कोवि तस्सव्व ।।
इत्यादिसौत्रान्ति कपक्षे धर्माभ्यनुज्ञानात् कथंचिदवस्थामादाय शङ्कासंभवेऽपि वैभाषिकपक्षो विशिष्यासंगत इत्याह विभज्येति इत्याहुः ।
ज्ञानेऽर्पयित्वा आकारं वस्त्वात्मनः। )
(निर्भाति सम्वरूपं धर्मो वा कोऽपि तस्यैव ॥ ) इति तदर्थः । विभज्य-विशिष्येत्यर्थः । धर्मिवादिसौत्रान्तिकापेक्षयेति शेषः।
ननु रूपादौ रूपत्वाद्यवस्था अतिरिक्ता माभूत् । किंतु रूपादिकमेव संहतावस्थं द्वीन्द्रियग्राह्यं ; तदेवासंहतस्वरूपं प्रतिनियतेन्द्रियग्राह्यं भवत्वित्यनूद्य परिहरति---तदिहेति
भावप्रकाशः रसगन्धस्पर्शा इति चत्वारि द्रव्याणि । पृथिव्यप्तेजो वायुरिति चत्वारि । द्रव्यशब्दो वस्तुवचनः । तेषामष्टद्रव्यकोऽणुः' इत्यागमः (न्या-वाता-टी) इति बुद्धागमविरुद्धभाषणेन वैभाषिक इति समाख्या भवतो युक्तति सूचितम् ॥
अतीत्यनेन 'सर्वशून्यवादिनापि हि संवृत्या विशिष्टधीरिष्यत' इति वक्ष्यमाणमाध्यमिकपक्षादपि मन्दत्वं द्योत्यते ।
* स्वलक्षणति-असंहतस्वलक्षणं निर्विकल्पविषयः संहतं तु विकल्पस्येति बोध्यम् । अद्रव्यसरे (४२) चैतदर्थः स्फुटः ।