SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सरः प्रबन्धावतरणम् तत्वमुक्ताकलापः अस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताः कृतान्ताः। तत्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान समस्तान पुंस्त्वे तत्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुतादिः ॥५॥ द्रव्याद्रव्यप्रभेदान्मितमुभ यविधं तद्विदस्तत्व सर्वार्थसिद्धिः दर्थेष्वस्तिनास्त्योरानन्त्यादित्यन्वयः । अस्तिनास्त्योरिति प्रयोगपरम् । कुहना-छद्म तत्सम्बन्धिन्यो युक्तयः कुहनायुक्तयः हेत्वाभासच्छलजातिरूपाः । ताभिः कान्ताः सम्यक्त्वेनैव भाताः। तत्वालोकः यथार्थाध्यवसायः । प्रकृतशङ्कानिरासार्थ अपेक्षणीयान्तराभावात्सहसेत्युक्तम् । निस्सम इति निरवधिकत्वोपलक्षणम् । प्रतिरोधवाधरहित इत्यर्थः । उक्तस्थापकं त्रय्यन्तार्थविशेषव्यञ्जकमप्यर्थान्तरं न्यस्यति-पुंस्त्व इति । पुनर्न प्राणिता संशयविपर्ययसामग्रीलोपान भासतेत्यर्थः ॥५॥ अथ निरूप्यमर्थजातं साधर्म्यवैधर्म्यभेदैस्संगृह्य विभज्य च निर्दिशति-द्रव्येति। अत्र तत्वमिति पदार्थमात्रोक्तिः ।मितं ____ आनन्ददायिनी न्त्याभावादित्यत आह ---अस्तिनास्त्योरिति--प्रयोगाणां बहुत्वाद्विषयविषयिभावसंबन्धेनार्थगतत्वमिति भावः ॥ ५ ॥ ननु निरूपणे प्रवृत्तस्य तत्वविभागकरणमसङ्गतमित्यत्राहअथ निरूप्यामिति । निरूपणसौकर्याय विभागः कृत इति भावः ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy