SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सव्याख्य सर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः *जीवेशतत्वप्रमितियुत ___ सर्वार्थसिद्धिः शिष्टा-चोदितेत्यर्थः । जीवेशावेव तत्वे जावेशतत्वे । तयोः *प्रमितिरिहागमजन्या । परोपास्तेस्तत्वज्ञानमितिकर्तव्यता । न तु स्वयं साधनम् । प्रमितियुता प्रमितिजानितानुस्मृतिपूर्विकेत्यर्थः । तदभिप्रायेणोक्तं 'जीवपरमात्मयाथात्म्यज्ञानपूर्वक' इत्यादि । आनन्ददायिनी शिष्टेति---शासेः रूपं न तु शिरित्याह----चोदितत्यर्थ इति । तत्वप्रमितेविनष्टत्वात् तद्युक्तत्वं तज्जन्यत्वं वा न संभवतीत्यत्राह प्रमितिजन्यानुम्मृतिपूर्विकति । परविद्यापरत्वं परोपासनाशब्दस्याभिप्रेत्याह--- सर्वविद्याभिप्रायमिति--- स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम् ' इति परविद्याप्रकरणान्नानमुपलक्षणमिति भावः ।। भावप्रकाशः 'जीवेशतत्वप्रमितीति---' पृथगात्मानं प्रेरितारं च मत्वा' 'द्वे विद्ये वेदितव्ये' इत्यादिश्रुतयोऽत्राभिमताः ।। *जीवेशतत्वे इति-तत्वं द्विविधं ईशरूपमीशितव्यरूपं चेति ; 'क्षरात्मानावीशते देव एकः' 'ईशावास्यमिदं सर्वं' ‘स ईशोऽम्य जगतो नित्यमेव ' इत्यादिश्रुतेरित्याशयः । जिज्ञासाधिकरणान्ते श्रुतप्रकाशिकायां तत्वत्रयाधिकारे चेदं व्यक्तम् । परतन्त्रचेतनो जीवः स्वतन्त्र ईश्वर इति न्यायपरिशुद्धिसूक्तया स्वतन्त्रमस्वतन्त्रामित्यपि विभागम्सूच्यते ॥ ___ *प्रमितिरिहागमजन्येति-एतच्च अदृश्यत्वादिगुणकाधिकरणे भाष्ये स्पष्टम् ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy