SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ सरः] कालस्योत्पत्तिवादः तन्निरासश्च 621 तत्वमुक्ताकलापः यदि तत्को वदेत्काल सृष्टिम् ?। आप्तस्तत्सृष्टिवादस्तदुपधिपरिणत्यादिभिस्सार्थकस्स्यात् नो चेत् तत्रापि पूर्वापरवचनहतिदुर्निवारप्रसङ्गा ॥ ६७ ।। सर्वार्थसिद्धिः तीति नास्माभिरुत्तरं देयम् । अथ पार्श्वस्थो यदि कश्चिद्रवीति ; तस्याप्युक्तदोषस्सम इत्यभिप्रायेणाह-तत्को वदेदिति । 'सदेव सोम्येदमग्र आसीत्, ‘नासदासीनो सदासीत्तदानीम्' इत्यादिश्रुतिविरोधश्चात्राभिप्रेतः। 'विद्याकालौ भवत्कृतौ' इत्यादिषु कालोत्पत्तिवचनं कथमित्यत्राह-आप्त इति । आप्तवाक्यस्थ इत्यर्थः । यथा निमेषादिसंवत्सरान्तजनिश्रुतिः पक्षमासादिष्वागमापायिताप्रत्याख्यातिश्च उपाधीनां तत्संयोगादिपरिणतीनां तदभिमानिदेवतानां वा सृष्टया अर्थवती तथाऽसावित्यर्थः । अन्यथा तत्रापि विरोधमाह-नो चेदिति । पूर्वापरवचनहतिः आनन्ददायिनी मत्वाऽऽह-अथ पार्श्वस्थ इति । श्रुतिविरोधश्चेति-सदेव सौम्य' इत्यत्र 'तम आसीत्' इत्यादौ च अग्रशब्दस्य सृष्टिप्राक्कालवाचित्वेन तेन विरोधः। नासदासीदित्यादौ तदानीमित्यनेन विरोध इत्यर्थः । यथेति‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः । अहोरात्रे मासाश्च संवत्सरा अजायन्त' इत्यादिश्रुतयः । पक्षो गतः मासो गतः आगतश्चेत्यादिलौकिकव्यवहाराश्च । कालोत्पत्तिवादिनाऽपि सृष्टिप्रलयमध्ये कालस्यैकत्वेऽपि तदुपाध्यादिकमादाय यथा
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy