SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ 616 सव्याख्यसर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः यमः प्राग्वदत्रेति चेन। कल्पान्तेऽप्येककालः प्रकृतिपुरुषयोर्ब्रह्मणो रूपमन्यत् निर्दिष्टोऽनाद्यनन्तो मुनिभिरिति ततः कार्यता चास्य भग्ना ॥६५॥ सर्वार्थसिद्धिः नेति । कथं शास्त्रे तदुक्तिरित्यत्राह-कल्पान्तेऽपीति । उक्तं हि वैष्णवे पुराणे 'विष्णोः स्वरूपात्परतोदिते द्वे' इत्यारभ्य रूपान्तरं तविज कालसंज्ञम्' इति । कार्यभूताकाशाद्यन्तर्भावश्चानेन भग्न इत्यनेन व्यनक्ति–तत इति । एतेन 'त्रिविधा प्रकृतिः कालः परमाकाशोऽव्यक्तमिति' केषां चित् कल्पनापि निरस्ता । ननु जैननिराकरणे कालस्य त्वित्यादिना भाष्येण कालो निराकृतइव भाति ! मैवम् ; सर्वप्रतिपत्तिषु तत्तत्पदार्थविशेषणतया सर्वलोकानुभूतस्य न बौद्धादिभिनास्तित्वं वक्तुं शक्यम् ; न त्वया पृथक्तदस्तित्वं साध्यम् ; कालोऽस्तीत्यादिपृथग्व्यवहारस्तु पृथक्सिद्धविशेषणानां निष्कृष्टव्यवहारवदिति तन्निर्धारणे तात्पर्यात्। आनन्ददायिनी रिक्तत्वे दिशोऽपि तथात्वापत्तिरित्याशङ्कते---कथमिति । कार्यवर्गाभावकाले इति प्रलये उक्तत्वान्न कालस्य दिक्समतेति भावः । एतेनेतिपरमात्मनः प्रकृतिजीवौ रूपद्वयं(परमात्मनः)स्वरूपाद्विलक्षणमुक्ता ततोऽप विलक्षणं. रूपान्तरं तद्विज कालसंज्ञमित्युक्तत्वादित्यर्थः । नन्विति--- 'नैस्मिन्नसंभवात्' इत्यधिकरणे कालस्य विशेषणतयैव प्रतीतेः तस्य
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy