SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ 606 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडव्य भावप्रकाशः यथा पातालावषये-~-- तदन्तरपुटास्सप्त नागासुरसमाश्रयाः । दिव्यौषधिरसोपेताः रम्याः पातालभूमयः ॥ ___ (सूर्यसि. भूगोला. ३३) इति । भूगोलान्तः पुटे सप्त रम्याः पातालभूमयः । तत्र नागासुरास्सिद्धाः निवसन्ति द्विजोत्तम ॥ (वासिष्ठसि. ११. ९२) इति च । अत्र श्रीविष्णुपुराणादौ पातालादौ सूर्यप्रभा वर्तते आतपस्तु नास्तत्युिक्तम् । पातालदेशानां भूविवररूपतया तदुपपद्यते । 'न भानु. करसंचारः' इत्यादिवासिष्ठसिद्धान्तोक्तिरपि सूर्यस्याधिकप्रकाशाभावाभिप्राया । नागमण्यादिभिः प्रकाशोक्तिरपि सूर्यप्रकाशादप्यधिकप्रकाशसद्भावाभिप्राया । मेरुविषये तु दैवज्ञविलासे लक्ष्मणयज्वना-- तदिलावृतस्य मध्ये मेरुनगो वेद (८४) योजनोत्सेधः । इत्यादिना विष्णुपुराणोक्तचतुरशीतियोजनप्रमाणमनुसृत्य तत्र सहस्रांशानादरेण योजनपरिमाणमुक्तम् 3* लोकानुपदिशद्भिरिति-महरादिलोकाः ज्यौतिीषकैरप्युक्ताः ; यथा लघुवासिष्ठे--- स्वर्लोको मेरुरेव स्यात् खे महश्च ततो जनः । ततस्तपः ततस्सत्य उक्ता लोकाश्चतुर्दश ॥ इति । अयमेवार्थः महासिद्धान्तसिद्धान्तशिरोमणिदैवज्ञविलासादिषूपपादितः । शास्त्रान्तरविरुद्धकल्पना न युक्तेत्युक्तं ब्रह्मगुप्तेनापि । यथा कृतादियुगचरणमानसाम्यविषये--- युगपादान्यार्यभटश्चत्वारि समानि कृतयुगादीनि । यदभिहितवान् न तेषां स्मृत्युक्तसमानमेकमपि ।। (ब्रां. सि. मध्यमां)
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy