SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ 604 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः परिवृतकदम्बकुसुमग्रन्थिवत् मक्षिकावृतमधुगोळवच्च तिष्ठति । अमरा नरा(मरा)श्च परस्परमधस्स्थितान् मन्यन्ते । पतनं च सर्वेषां भूगोळमध्यदेशाभिमुखमेव । पृथिव्यंशास्तु अवकाशालाभान्न तत्र प्रविशन्ति । अतो महापृथिव्या न कदाचित्पतनम् ; तामपेक्ष्य कस्यचिदधोदेशस्याभावादिति । तदेतत भुवोऽधस्तादुपरि च लोकानुपदिशद्भिश्शास्त्रैरुपरुध्येत । यत्तु ___ पातालदेशाः क्षितिगोळमध्ये सप्तोपदिष्टास्तलपूर्वकास्ते । इति ; यदपि मेरुयोजनमात्रः प्रभाकरो हिमवता परिक्षिप्तः। नन्दनवनस्य मध्ये रत्नमयस्सर्वतो वृत्तः ।। आनन्ददायिनी तया परिसरप्रदेश इवावकाशाभावादित्यर्थः । अत इति-यतोऽवकाशे नास्ति महापृथिव्याः ततो न पतनमित्यर्थः । अवकाशाभावे हेतु:तामपेक्ष्यति । यथा भवतां प्रकृतिरघ उपरि (तः) च व्यापिनी ततोऽतिरिक्तप्रदेशो न ; तथा भुवः सर्वत इत्यर्थः । भूगोळमध्य एव ज्योतिश्शास्त्रे पातालादय उपदिष्टा इति पक्षान्तरेऽपि शास्त्रविरोधस्समान इत्याह-यत्तिति। भावप्रकाशः स्वर्मेरुःस्थलमध्ये इत्यादौ महरादिलोकानामनुक्तेः अधस्तनपातालानामनुक्तेश्च नेदं युक्तमित्यभिप्रेत्याह *तदेतदित्यादि । .
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy